सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७३
न्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता


शब्दाभावः श्रोत्रगम्यः [१] प्रमाणान्तरवेद्यं पौर्वापर्यं वा क्रम इति स्थितं शब्दो गुणोऽनित्यश्चेति ॥ इति शब्दः ॥ तथापि कथं चतुर्विंशतित्वम् ? रुचिवद्विरुचेरपि सम्भवात्, यस्मिन्लत्युपात्तमेव नियमेन हीयते । न चेयमिच्छाभावमात्रम्, विपरीतस्यापि सम्भवात परत्वापरत्ववद्भेदसिद्धेरिति । दुःखमेव तीव्रं द्वेषोऽस्तु, यथेच्छैवोलवणा काम इति हानिस-


न्यायलीलावतीकण्ठाभरणम्

नन्वधिकरणायोग्यतया कथमेव स्यादित्यत आह प्रमाणान्तरेति । गुणश्चति । कर्मत्वमसम्भवि द्रव्यत्वं च प्रतिषिद्ध नैवेति भावः ।

 नन्वेकं पदमेकं वाक्यमिति बहुषु वर्णेषु प्रतीत्यन्यथानुपपत्तिरेव स्फोटसाधिकेति शंकते एकं पदमिति । यथा रजतत्वमनेकानुभवज नित्तसंस्कारलहकृतोन्द्रियवेघ तथा स्फोटोऽपीत्यर्थः ।

 गुणविभागं न्यूनाधिकत्वाभ्यामाक्षिपति तथापीति । चतुर्विंशतेर्गुणानां व्यवस्थितावपीत्यर्थः । विरुचरिति । | मह्यं न रोचते सौवीरमिति यतः प्रत्यय इत्यर्थः । यथा अपरत्वं न परत्वाभावस्तथेयमपि न रुचेरभाव इत्यर्थः । इच्छैवेति । स्त्रीविषयोऽभिलाष इत्यर्थः । द्वेषे ज्वलि-

न्यायलीलावतीप्रकाशः

साहचर्यलक्षणः क्रमः श्रोत्रेण प्रतीयत इत्यर्थः । विशेषणज्ञानं विना विशिष्टज्ञानाभावात् । प्रमाणान्तरेति । पौर्वापर्य पूर्वापरकालसम्बन्धः, स यद्यपि न श्रोत्रवेद्यस्तथापि मानान्तरोपनीतः श्रोत्रप्रत्यक्षे भासत इत्यर्थः । गुणक्ष्चेति । यद्यपि शब्दस्य द्रव्यत्वमात्रं निषिद्धं न तु गुणत्वमपि साधितम्, तथाप्यनित्यस्य विभुसमवेतस्य गुणत्वनिश्चयादर्थादुक्तम् ।

 यस्मिांन्नति । यस्मिन् कारणे सत्युपात्तमपि वस्तु नियमेन हीयते तद्विरुचिरित्यर्थः । परत्वापरत्ववदिति । अन्यथा परत्वाभावमात्रमपरत्वं स्यादित्यर्थः । हानीति । चतुर्विंशतिर्गुणा इति विभागहानिप्रसङ्गादित्यर्थः।

न्यायलीलावती प्रकाशविवृतिः

 लिङ्गसङ्गत्यर्थमाह कारणेति । तथाच मूलेऽर्थानिर्देश इति


  1. ↑ श्राग्राह्य - इति प्रा० पु० पाठः ।