पृष्ठम्:न्यायलीलावती.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोनासिता


द्रव्यं नाकुलमुज्ज्वलो गुणगणः कर्माधिकं श्लाध्यते
जातिर्विप्लुतिमागता न च पुनः श्लाघ्या विशेषस्थितिः ।
सम्बन्धः सहजो गुणादिभिरयं यत्रास्तु सत्प्रीतये
सान्वीक्षानयवेश्मकर्मकुशला श्रीन्यायलीलावती ॥२॥


न्यायलीलावतीकण्ठाभरणम्

 ग्रन्थे स्वप्रेयसीनाम योजयन्नेव प्रेक्षावतां प्रवृत्तयेऽभिधेयं श्लाघनीयविशेषणेन विशिंषन्नाह-द्रव्यमिति । न्यायः पञ्चावयववाक्यं स एव लीला तद्वतीति ग्रन्थनाम।प्रेयसीपक्षे न्यायेन उचितमार्गेण या लीला तद्वतीत्यर्थः । स्वामिन्येव विलासं विभ्रतीत्यर्थः। श्रीपदमुगायत्रात्कर्पद्योतनाय । सतां मुमुक्षूणां प्रीतये प्रमोदाय ग्रन्थः। सतां विदग्धानां प्रीतये प्रियास्तु। ग्रन्थे द्रव्यपदार्थों नाकुलो नाविस्पष्टः अन्यत्र द्रव्यं भाजनादि अलङ्कारादि वा। नाकुलं न विपर्यस्तत् । प्रन्यपक्ष गुणगणो रूपादिसमूहः उज्ज्वलोऽन्योन्यासङ्कीर्णतया व्युतपादिनः अन्य त्र गुणगणः शीलसौन्दर्यादिरूप उज्ज्वलो मनोरमः। ग्रन्थे च कम्र्म-

न्यायलीलावतीप्रकाशः

करोति एकपुत्रे या प्रीतिः अनुजिघृक्षा, तया परमां दुःखासहवृत्ति निर्वृतिं सुखं दुःखाभावं चादधाति । सृष्ट्यवनयोः कार्यमात्रे सम्भवेऽपि परमनिर्वृतेरसम्भवादत्र जगत् संसारमात्रम् । सहजा आगन्तुकहेत्वजन्या, अतएव दीर्धा उत्तरकालानवच्छिन्ना या कृपा निरूप. धिपरदुःखप्रहाणेच्छा, तया अनुबन्धेन पौनःपुन्येन सृष्टिस्थितिसंहारकरणाय लब्धारित्रतत्त्वस्वरूपाः ब्रह्मविष्णुशिवात्मिकास्तनवो येन, तस्मै । अथ च ग्रन्थकृता स्वपित्रे पुरुषोत्तमनाम्ने नमस्कारो निबद्धः । तत्र सहजा दीर्धा उर्वी या कृपा तदनुबन्धेन वशीकृतास्पितत्त्वतनवो ब्रह्मादयो येनेत्यर्थः । अन्यत् तुल्यमेव ॥

प्रेक्षावतांप्रवृत्त्यङ्गमभिधेयमाह-द्रव्यमिति । न्यायः समस्तरूपोपेतं

न्यायलीलावतीप्रकाशविवृतिः

भगवति नास्तीत्यत आह-प्रीतिरनुजिघृक्षेति । आगन्तुकेति । यद्यपि हेत्वना पेक्षत्वेनैव सम्यक् तथापि पितृपक्षसाधारण्यार्थमागन्तुकत्वं विशेषणं स्वरूपनिर्वचनार्थं वा । तथा च स्वेच्छाचशादत्र शरीरपरिग्रहो न तु धर्माधर्माभ्यामिति भावः।

 समस्तेति । समस्तरूपोपेतलिङ्गप्रतिपादकमित्यर्थः । प्राप्यते कान्त. -