सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५६
न्यायलीलावती


न शब्द: शब्दसाध्य इति ध्वनिसंयोगविभागकल्पनापत्तेः । वेगशब्दस्य शिष्टराशुपर्यायत्वेन स्वीकारात् तस्य च समयभेदवाचित्वात् । न चोभयवाचित्वं कल्पनागौरवात् । ततोऽभिलापभेदावभासिनी प्रतिपत्तिः समयभेदमेवाश्रयते इति प्राप्तम् । मैवम् । सन्तानाशूत्पादस्यानाकलनेऽप्यन्तरा सम्भविनां वेगबुद्धिविषयत्वात् सन्तानिनां क्रियासंयोगक्षणानामाशुभावस्य


न्यायलीलावतीकण्ठाभरणम्

कर्मैव कर्मजनकमिति न वेगसिद्धिरित्यर्थः । ध्वनिर्वाय्वः । यत्रापि ध्वन्यादिक नास्ति द्वितीयादिशब्दोत्पादनार्थे तत्कल्पना स्थादित्यर्थः । ननु वेगशब्दवाच्येन केनचित् अवश्यं भाव्यं स एव वेग इत्यत अह बेगेति । उभयेति । समयभेदो गुणान्तरं वेगश्चत्युभयम् । अभिला पभेदो वेग इति शब्दभेदः । रहेण भ्रमत्यलातचक्रमित्यत्र भ्रमणैकयप्रत्ययानुरोधादेकस्य वेगम्य सिद्धेरिति समर्थयति सन्तानाशूत्पादस्येति । अन्नरा सम्भविनामिति । भ्रमणान्तरा सम्भविनामित्यर्थः । जनूक्तं संयोगविभागप्रबन्धोत्पादादाशुत्पादप्रतीतिरित्याह सन्तानिनामिति । न च

न्यायलीलावतीप्रकाशः

रप्राप्तरेभावान्तरकर्मजनकतया वेगः सिदित्यत आह नचेति । तत्प्रतीतिः - वेगप्रतीतिः | दूषयति अत्रेति । अनुकूलतर्काभावादित्यर्थः । प्रतिकूलतर्कमप्याह अन्यथेति । ध्वनिर्वायुधर्मविशेषः । नापि वेगशब्दप्रयोगविषयतया वेगसिद्धिरित्याह वेगशब्दस्येति । अभिलापो वेगेनेत्येवंरूपः । सन्तानाशूत्पादस्येति । क्रियासंयोगविभागसन्तानाशूत्पादस्येत्यर्थः । ननु सन्तानाशुत्पादानाकलनेऽपि सन्तानिनामाकलनं स्यात् कर्मणः क्षणचतुष्टयावस्थायित्वेन तदाधारकालस्य प्रत्यक्षत्वादित्यत आह सन्तानिनामिति । वेगप्रतीतेरतिरिक्तगुणालम्बनत्वमिति शेषः । ननु

न्यायलीलावतीप्रकाशविवृतिः

उत्तरकर्मविनेत्यर्थः । ननु ध्वनिकारणत्वकल्पनयापि शब्द एव शब्दजनक आयात इत्यतो व्याचष्टे ध्वनिर्वायुर्धर्मविशेष इति । तथाच ध्वनेः संयोगविभागयोरसमवायिकारणत्वकल्पनापत्तेरिति मूलार्थ इति भावः । सन्तानिनामिति । आशुत्पादस्येति शेषः । क्षणाचतुष्टयावस्थायित्वने