सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५०
व्यायलीलावती


 अत्रोच्यते । संस्कारस्य हि द्वयी आधारता-समवायः स्वभावप्रत्यासत्तिथ । तत्र व्रीह्याधारता स्वभावप्रत्यसत्तिरवे स्यात्, भावनावत् । यथा तद्विषयज्ञानप्रतत्वमेव तदीयत्वं भावनायाः, तथा तद्विषयप्रोक्षणादिमतत्वमेव तदीयत्वम् । प्रत्यासत्तिश्च तदुपरक्तप्रतीतिगम्या । सा च ज्ञात इव [१] संस्कृत इति सम्भवति । मुख्य सम्बन्धकल्पनायां [२] किं बाधकमिति चेत् । कल्पनायां [३]


न्यायलीलावतीकण्ठाभरणम्

स्कार: स्वरूपसम्बन्धेन व्रीहिषु वर्त्तमानः कर्मत्वादिप्रयोजक इत्याह संस्कारस्य हीति । मुख्यसम्बन्ध इति । समवाय इत्यर्थः । कल्पनाया-

न्यायलीलावतीप्रकाशः

दिषु विशेषानाधाने कुसुमारुण्यमनुपपन्नमित्यर्थः । अत्र तयेत्यनन्तरं विनेत्यध्याहरन्ति । प्रोक्षणजन्य पुरुषनिष्ठसंस्कारसम्बन्धादेव कर्मरवोपपत्तिरित्याह संस्कारस्य हीति | यथेति । यथा घटं जानामि घटं भावयतीत्यत्र ज्ञानभावनयोश्तद्विषयत्वेन स्वरूप सम्बन्धने द्वितीयोप पत्तिस्तथा प्रकृतेषीत्यर्थः । तद्विषयेति । अतीततद्विषयज्ञानप्रसूतत्वमि त्यर्थः । तथा च प्रोक्षणजन्यसंस्काराधारत्वाहीहीणां कर्मत्वमुपपन्न मिति नाधेयशक्तिकल्पनमिति भावः | स्वरूपस्य प्रत्यासत्तित्वे मान-

न्यायलीलावतीप्रकाशविवृतिः

भिधानमयुक्तं, तथापि परम्परया प्रयोजकाद्विशेषणादित्यर्थः । अध्याहरन्तीति, वैमत्यसूचनाय । तद्वीजन्तु तयेत्यस्य मात्रयेत्यर्थकत्वे काण्डाङ्कुरादौ मात्रानाघाने मात्रया कुसुमेषु रक्तताधानमनुपपन्न मित्यन्वयसम्भव एवेति ध्येयम् । घटं जानामीति । यद्यपि क्रियाजन्यफलस्य कर्मणः स्वरूपसम्बन्धे प्रकृतोदाहरणं युक्तं, तथापि स्वरूपसम्बन्धेन कर्मतोपपत्तिरित्यतावन्मात्रे दृष्टान्तः । ( वस्तुतो ज्ञानभावनयोरिति फलपरमेव, ज्ञानपदच स्मृतिपरम्। यथायोग्यं वाऽन्वयः भावनया ज्ञान जनकत्वेन तत्प्रसूतत्वमसम्भवतीत्यत आह) [४]अतीततद्विषयेति । स्वरूप-


  1. ↑ ज्ञात इति वत् इति मु० पु० पाठ ।
  2. ↑ सम्बन्धे किं- इति मिश्राभिमतः पाठः ।
  3. ↑ कल्पना गौरवमिति प्रकाशाभिमत पाठ ।
  4. ↑ चिन्हित पाठः (१) आदर्शपुस्तके नास्ति ।