पृष्ठम्:न्यायलीलावती.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता



न्यायलीलावतीप्रकाशः

धारये विशेषणत्वादुत्तमपदस्य पूर्वनिपातापत्तिः । पुरुषेषूत्तम इत्यत्र निर्धारणसप्तमीसमासे न निर्धारण इत्यस्य वैयर्थ्यप्रसङ्गः, तत्र षष्ठी

न्यायलीलावतीप्रकाशविवृतिः

ब्दसाम्येऽपि नार्थसाम्यमिति वाच्यम , उत्कर्षशब्दप्रवृत्तिनिमित्तवत्वेन नानोत्कर्षाणामनुगमे तद्वत्वस्याप्यनुगतत्वात् । एतेन कर्मधारयसमास एवात्र परस्परव्यभिचाराभावादसम्भवीत्यत्रैव तात्पर्य्यमिति मिश्रमतमपास्तमिति चेत् मैवम् , विशेषणं हि विधेयं तच्चाज्ञातं न चेहोत्तमत्वेन ज्ञाते पुरुषत्वमशातं किन्तु पुरुषत्वेन ज्ञाते उत्तमत्वमिति तदेव विधेयम् । अतस्तदेव विशेषणम् । न च कस्यचिद्वैपरीत्येनापि ज्ञानमिति न नियम इति वाच्यम् , नमस्यताप्रयोजकत्वेन प्रकृते उत्तमत्वज्ञानस्यापेक्षिततया तज्ज्ञाने सति पुरुषत्वज्ञानस्याकि. श्चित्करत्वेन तदसम्भवात् । यत्तु उत्पलनीलमित्यादिप्रयोगापत्त्या नैवं विशेषणविशेष्यभावे कामचार इति मतं तत्तुच्छम् । तथा विवक्षायां तथाप्रयोग इष्टापत्तेः। अन्यथा चन्द्रमुखमुखचन्द्रपदयोरुभयोः साधुत्वानुपपत्तेः। यत्तु लोकप्रसिद्धमेव यद्विशेषणं तद्वाचकमेव पदं सूत्रे विशेषणपदार्थः, तच्चहोत्तमत्वमेवेति मतं तन्न. लोकपदस्य यावदेकदेशविकल्पग्रासात् । वयं तु उत्तमत्वमत्र सर्वज्ञत्वादिकमेव तस्यैत्र नमस्यताप्रयोजकत्वात् । तच्च पुरुषत्वव्याप्यमेवेति न पुरुषत्वस्थ विशेषणता, विशेष्यतावच्छे. दकसमानाधिकरणात्यन्ताभावप्रतियोगिन एव विशेषणत्वादिति नात्र कामचारः । न चैवं कर्मधारयाशङ्कैव न, परस्परव्यभिचारामावादिति वाच्यम् । ज्ञापकेनापि विशेष्यतावच्छेदकव्यभिचारमात्रलब्धेरल्यथा शिंशपा वृक्ष इति प्रयोगानुपपत्तेः। अत एव शिंशपा इत्यादिकमेव प्रत्युदाहरणं वृत्तिकारो दर्शयति स्मेति ब्रूमः । पुरुषेष्विति । तदर्थकतत्पदसाधुत्वनिषेधो हि निषेधसूत्रप्रयोजनम् । तादृश. पदं च यदि विभक्त्यन्तरसमासेनापि निष्पन्नं तदा सूत्रवैयर्थ्यमिति भावः । इदं चापाततो दूषणम्। वस्तुतः स्वरविशेषनिषेधार्थमेव षष्ठीसमासनिषेधकसूत्रोपपत्तेर्न्न सप्तमीसमासनिषेधे तात्पर्य्यम् , तस्य सप्तमीसमासे हि पूर्वपदे प्रकृतस्वर एवावतिष्ठते षष्ठीसमासे तु पूर्वपदस्योदात्तत्वं भवतीति भाष्यकारादिस्वरसात् । तदुक्तं त्रिधा हि भिद्यते शब्दोऽर्थतो रूपतः स्वरतश्चेति । अतएव कुसुमाञ्जलिप्रकाशे सप्तमीविग्रह एव प्रदर्शितः।यत्तु स्वरभेदस्य वेदविष