सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२४
न्यायलीलावती


नात् । न च तन्न तत्काळावच्छिन्नम् तदान मिसवापत्तेः । नापीदानीं तदवच्छेदमाकलयति, अनवभासात्तस्येदानींकालस्य पू र्वानुभवेन स्मरणायोगात्। मुनीनामव्यवहारादिति चेत् । न । वादिनं प्रति मुनित्वस्यैवासिद्धिरिति । तत्कथं द्वे एव प्रमाणे इति चेत । अत्रोच्यते । न ह्यत्र सत्यज्ञानत्वं सत्यानुभवत्वं वा प्रामाण्यं साध्यम् यथाक्रमं सिद्धसाधनबाघयोः सत्त्वात् । नापि प्रमाणशब्दवाच्यत्वम्, अनीश्वरेच्छाप्रयुक्त प्रमाणशब्दाभिधेयत्वे सिद्धसाधनात् । ईश्वरेच्छापरतन्त्रप्रमाणशब्दवाच्यत्वस्य तद्भियुक्त पुरुषव्यवहारगम्यत्वात् । प्रमाणाभियुक्तानां चाक्षचरणकणभक्षादीनां स्मृतौ प्रमाणव्यवहाराभावात्, इन्द्रपाणिनिप्रभृति-


न्यायलीलावतीकण्ठाभरणम्

पूर्वानुभवागोचरत्वादित्याह तस्येति । स्मृतिविषयस्येत्यर्थः । कथमिति । स्मृतिकरणीभूतस्य तृतीयप्रमाणस्यावश्यं वाच्यत्वादित्यर्थः । निग-

न्यायलीलावतीप्रकाशः

तत्तावच्छेदस्तत्र भासते स च वस्तुगत्या घटे कदाचिदस्त्येवेति तद्विषया स्मृतिर्यथार्थैव, इदानीमयं रक्त इति प्रतीतेराकार एव नेति भावः । नापीति । इदानींकालं तत्कालत्वेन नाकलयति स्मृतिरिति शेषः । अनवभासात्तस्येति । इदानींकालविशिष्टत्वेनाननुभूतस्येदानीं स्मृत्ययोगादित्यर्थः । प्रमाणशब्दवाच्यत्वमाधुनिक सङ्केतविषयतया ईश्वरसङ्केतविषयतया वा ? आद्ये अनीश्वरेति । अन्त्ये ईश्वरच्छेति । त-


न्यायलीलावती प्रकाशविवृतिः

त्येव तत्ता भासतेऽन्यथा तु प्रमुष्टतत्तांशैव स्मृतिरिति भावः । अनुभवस्य तत्ता विषय इति तत्कल्पनमिति मूलस्य चानुभवे तत्ताविषयकत्वकल्पनमित्यर्थ इति भावः । आकार एव नेति । रक्तो घट इति प्रत्ययस्य न तथाकार इत्यर्थः । इदानीकालं तत्कालत्वेनेति । इदमुपलक्षणम्, तत्कालमिदानका लत्वेन तत्कालस्येदानींकालावच्छिन्नत्वं चेत्यपि मूलार्थो द्रष्टव्यः । इदानींकालेति । इदानींकालस्याननुभूतस्य स्मृत्ययो-