पृष्ठम्:न्यायलीलावती.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वल्लभाचार्यकृता

न्यायलीलावती


नाथः सृजत्यवति यो जगदेकपुत्रः


शङ्करमिश्रकृत-न्यायलीलावतीकण्ठाभरणम्

पितुाख्यां कृत्वा मनसि भवनाथस्य कृतिनो
वयं लीलावत्याः प्रथयितुमिहोक्तिं व्यवसिताः।
तदेतस्मिन् कर्मण्यतिगुरुणि गौरीपरिवृढे
दृढा भक्तिः शक्तिं जनयतु यथा स्याम निपुणाः॥

 कर्तव्यविघ्ननिराचिकीर्षया कृतं मङ्गलं शिष्यशिक्षायै निबध्नाति नाथ इति । तस्मै पुरुषोत्तमाय नमः । पुरुषोत्तम इति निर्धारणपष्ठय-

बर्द्धमानोपाध्यायकृत-न्यायलीलावतीप्रकाशः

एकत्र शूलमपरत्र विसप्रसूनमन्यत्र कृत्तिरितरत्र च पीतवासः । तत्पातु वर्ष्म शशलक्ष्मकलाकिरीटनिष्पिष्टकैटभहृदोर्मम वाञ्छितानि।

न्यायाम्भोजपतङ्गाय मीमांसापारदृश्वने ।
गङ्गेश्वराय गुरवे पित्रेऽत्रभवते नमः ॥२॥

 विशिष्टशिष्टाचारानुमितकर्तव्यताकं विघ्नविघातकं मङ्गलं नमस्कारं निबध्नाति-नाथ इति । यद्यपि पुरुषाणामुत्तम इत्यत्र न निर्धा

भगीरथठक्कुरकृता-न्यायलीलावतीप्रकाशविवृतिः ।

सद्योदलितदैत्येन्द्रदलद्वयदिदृक्षया।
विस्फारितं दिक्षु चक्षुर्न्नारसिंह नमाम्यहम् ॥ १॥

आसेविता गुणवतापि निगूढभावा लीलावतीगुणवती न मुदं तनोति। एतत्प्रकाशविवृतिच्छलतस्तदस्या भावं भगीरथसुधीः सरलीकरोति'

 ग्रन्थारम्भे विघ्नविघाताय कृतं मङ्गलं तत्र शिष्याणां शिष्टाचारविषयत्वरूपलिङ्गज्ञानाय निबध्नाति-एकत्रेति । यत्रेत्यध्याहार। वर्ष्मेमेत्येकवचनेनाग्रे द्विवचनेन च हरिहरात्मकशरीरलाभः।

 अप्रामाणिकत्वनिरर्थकत्वशङ्कापरीहाराय प्रमाढ्यमाचरणं फलंच मङ्गलस्य दर्शयति-विशिष्टेति । यद्यपीति । यद्यपि पुरुषोत्तमपदस्य योगार्था नपेक्षरूढिस्वीकारे समासविकल्पोयमसङ्गतः तथापि योगार्थस्याभा-