सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२०
न्यायलीलावती


म्वितप्रतीतिकस्य व्यभिचारस्यानुद्भावनात् ॥ इति हेत्वाभासाः ॥

 स्मृतिरपि मानान्तरमेव अर्थनिश्चयहेतुत्वात् । अनुभवपारतन्त्र्यानैवमिति चेत् । न । उत्पत्तिपारतन्त्र्यस्य प्रमाणान्तरसाम्यात् फलाभावेन ज्ञप्तिपारतन्त्र्याभावात् । इच्छावद्विषये

न्यायलीलावतीकण्ठाभरणम्

भयनिरूप्यत्वम् ।

 मानान्तरं मित्यन्त रमित्यर्थः । अर्थनिश्चयहेतुत्वात- अर्थपरिच्छेदात्मकत्वात् । नैवमिति[१] । न मानान्तरमित्यर्थः । उत्पत्तीति । अनुमित्यादीनामपि लिङ्गपरामर्षादितन्त्रत्वात् । ननु स्मृतिः फले जनयितव्ये प्रमाणान्तरमपेक्षत इति नेयं मानान्तरमत आह फलाभावेनेति । ननु विषयलाभ एवास्याः पूर्वानुभवाधनि इत्येव पारतकमत आह इच्छावदिति । स्वभावत एव चेदियं सविषया न स्यात्तदा ज्ञानमेव न

न्यायलीलावतीप्रकाशः

नादित्यर्थः । ननु पक्षस्य साध्यतदभावान्यतरवश्वनियमेन तत्रोभयोरपि सम्भावनायां व्यभिचारयङ्कावतार एव तत्र दोषः स्यादित्यत आह अनध्यवसायेति । अनध्यवसायानन्तरं पश्चाद्व्यभिचारो गम्थत इति व्यभिचारस्याप्यनध्यवसित मेवोपजीव्यमिति तदेव स्वतो दूषणं तत्रोद्भाव्यं न तूपजविको व्यभिचार इत्यर्थः । विलम्बप्रतीतिकत्वे हेतुः शबलेति । शबलदूषणत्वं सपक्षविपक्षोभयनिरूण्यत्वमित्यर्थः ।

 मानान्तरमिति । प्रमित्यन्तरमित्यर्थः । ननु मानान्तरसापेक्षज्ञानजनकत्वान्न स्मृतिर्मानान्तरमित्यत आह फलाभावेनेति । ज्ञानजनकत्वाभावेनेत्यर्थः । नन्विच्छा प्रयत्नयोरिव स्मृतेर्विषयं प्रति नियमे स्वज-

न्यायलीलावतीप्रकाशविवृतिः

प्तमी । शबलेति । अनध्यवसायः पक्षमात्रनिरूप्यो व्यभिचारस्तु सपक्षविपक्षोभयनिरूप्य इति विलम्बितप्रतीतिक इत्यर्थः । एवं च मूले विलम्बित प्रतीतिकस्येत्यन्तरं चकारोऽध्याहार्य इति भावः ।

 तज्जन्यप्रमाविरहेण मानान्तरत्वमसम्भवतीति व्याचष्टे प्रमित्यन्तरमिति । यद्यप्येवं स्वार्थनिश्चय हेतुत्वादितिमू लासङ्गतिस्तथापि स्वा-


  1. ↑ अत्र भूले - नैवम् उत्पत्तीति-पाठो मिश्रामिमतः पठनीयः ।