सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२४
न्यायलीलायती


चेन्न, व्याप्यत्वानुपलम्मस्य तन्निवायकत्वेन विपरीतापत्तेः । नह्यत्र योग्यानुपलम्भं विनाऽभावावगतिरिति चेत् । मैवम् । स्वार्थानुमाने यदेव स्फुरति तदेव दूषणमित्युपजीव्योपजीवकमावाविचारात् । परार्थानुमाने तु व्यभिचारिणि न व्याप्त्यसि-


न्यीयलालीवताकण्ठाभरणम्

उपलम्भस्य प्रतिबन्धस्तदभावो व्यभिचारधीलक्षणस्तस्मात् कार्यस्योपलम्भस्याभावोऽसिद्धिरिति चेदुपजीव्यं नषे, तन्न सम्भवति यतः प्रतिबन्धाभावस्यैव ग्रहः प्रतिबन्धानुपलम्भाधीनः, नहि योग्यानुपलम्भमन्तरेणाभावग्रहे कारणान्तरमस्तीति व्यभिचार एवोप जीवकत्व सिद्धिरिति विपरीतापत्तिरित्यर्थः ।

 परार्थानुमाने त्विति । पर्वतो धूमवान्वह्निमत्वादित्यत्र यद्वह्निमत्तद्धूमवदित्युदाहरणावयवेन वादिना व्याप्तौ दर्शितायां व्याप्यत्वासिद्धिस्तावदाहस्योद्भावयितुं न शक्यते , व्याप्तिनिश्चये चानौपाधिकत्वमप्याततो निश्चितमेवातो यद्यपि व्यभिचारशङ्कापि नोदेतुमर्हति, त-

न्यायलीलावतीप्रकाशः

वस्यैव व्याप्यत्वेनोपजीव्यत्वं कार्याभावस्य च प्रतिबन्धानुपलम्भ स्यासिद्धिरूपस्योपजीव्यत्वमित्यर्थः ।

 व्याप्यत्वानुपलम्भस्येति । व्याप्यत्वानुपलम्भस्य प्रतिबन्धाभावनि-

न्यायलीलावतीप्रकाशविवृतिः

न्तेन पुनः शङ्का, कारणाभावादित्यादित्यादिना सिद्धान्तमन्द्य इति चेन्मभ्यसे सिद्धान्तिन् तन्न तत्र हेतुर्व्याप्यत्वानुपलम्भस्येत्यादि इति योजना । द्वितीयपक्षे व्यभिचारिष्वित्यादिस्थितिरिति चेदित्यन्तेनावान्तरशङ्का, नेत्यादि अभावावगतिरिति वेदित्यन्तेन तन्निराकरणे प्रथमशङ्काया उपसंहार इत्येवं योज्यम् । प्रतिबन्धाभावस्यैवेति । यद्यध्येवं प्रतिबन्धाभावोपजीवकत्वेऽपि न व्यभिचारोपजीवकत्वं तथाध्यव्यभिचारस्यैव प्रतिबन्धकत्वमित्यभिप्रेत्येदम् । व्याप्यत्वेनेति । यद्यपि प्रतिबन्धभ्रमस्थले व्यभिचारस्तथाप्युपलम्भपदस्य प्रमाणत्वमभि प्रेत्येदम् । ननु व्यभिचारशङ्काया अप्युत्पाददर्शनेऽसम्भव एवेत्यतो मूले तदुपाध्यभावेनेति । तथासत्यतिपीडाऽतिनिर्बन्धः स्यादिति तत्प्र-