न्यायलीलावतीकण्ठाभरणम्
धारवश्वस्य जनकत्वात् । अदृष्टानाधारकालानाधारत्वम् गन्धानाधारकालानाधाराभावत्वं च लीलावतीकारमते सर्वमुक्त्यनभ्युपगमे न दृष्टम् । प्रतियोग्यन्यूनानतिरिक्त कालीनाधिक सामयिकपरत्वाश्रयसमानकालीन कादाचित्काभावत्वं तु न लक्षणं शब्दबुध्यादिप्रागभावाव्याप्ते, न हि क्षणद्वयमात्रस्थायि मूर्तं संभवति, सम्भवे आद्यशब्दप्रागभावे च तथाप्यव्याप्तिः, प्रलयकालीनचरम क्रियाप्रागभावाव्याप्तिः, ब्रह्माण्डान्तरसत्त्वेपि तम्मूर्तनिरूपितपरत्वोपेते प्रमाणाभावात् । प्रतियोगित्वं च प्रागभावप्रतियोगित्वमेव वाच्यं तथा चात्माश्रयः,
न्यायलीलावती प्रकाशविकृतिः
एवान्त्य शब्दप्रागभावेऽपि नाप्रसिद्धिनिबन्धनाव्याप्तिः, यथाश्रुते तस्या अपि प्रसङ्गात् । केचित्तु प्रतियोगिकालनेत्येव विवक्षितम् । न च प्रतियोग्युत्तरोत्पन्नमादायासम्भवः । नहि प्रतियोगिकालीनेत्यत्रापि यावत्वं विशेषणम्, किन्तु परत्वे परत्वाश्रये वा । तथाच प्रतियोगिसहोत्पश्चं प्रतियोगिपूर्वोत्पन्नमेव प्रतियोगिलमानकालं वा गृहीत्वा लक्षणस्य सुवचत्वात् । एतेनान्त्यशब्दप्रागभावेऽपि लक्षणसङ्गतिः । न च प्रतियोगिध्वंसाव्यवहित पूर्वोत्पन्नद्रव्यमादाय ध्वंसेतिव्याप्तिः, तद्वधिकपरत्वस्य पूर्वकालविनष्टेऽसम्भवात् । पूर्वमेतस्यानुत्पत्तेरिदानीं च तस्यैव नाशात् परत्वापरत्वयोश्चैकदैवोभयत्रोपपत्तेरिति वाच्यम् । परत्वाश्रयपदेन परत्वाश्रयत्वयोग्यस्य विवक्षितत्वात् योग्यतायाश्च पूर्वविनष्टेऽपि सत्वादिति वदन्ति । तदयुक्त्तम्। योग्यतावच्छेदकं हि पूर्वोत्पन्नत्वमेव वाच्यम्, तच्च प्रागभावघटितमित्यात्माश्रयात्, तस्माद्योग्यताऽघटितमेव लक्षणं वाच्यमितिशङ्किताव्यातिनिरासाय यावत्स्वमनुगतप्रतियोगिकालीनेऽपि विशेषणमित्यसम्भव एवेति पूर्वव्याख्यैव साधुः ।न च पूर्वव्याख्यानेऽपि यत्र तादृशं द्रव्यं नास्त्यनिश्चितं वा तत्प्रागभावेऽतिव्याप्तिरिति दोषः, तादृशद्रव्यस्य व्यणुकादेरन्यस्य वा सर्वत्र सम्भवात् । निश्चयस्तु तस्यापाततो मास्तु, उत्तरकालंतु अनुमानादिना स्यादेव। प्रतीतिविषयस्तु स्वरूपसम्बन्धविशेष एव । एवमनभ्युपगमे यावत्परत्वाध्याप्रत्यक्षतया लक्षणाशानापत्तेश्च । परत्वं च कालपिण्डसंयोगासमवायिकारणकं विजातीयमेव लक्षणपविष्ठतः प्रतियोगित्वनिष्ठस्यापि दैशिकपरत्वाश्रयत्वादव्याप्तिरपा-