प्रमाण [१]मिति चेत् । न । तत्प्रवादपारम्पर्यस्यादरपरिग्रहादेवाप्तोक्तत्वानुमानात् । ऐतिह्यभङ्गः ॥
अभावो मानान्तरम् । न ह्यनुपलम्भानपेक्षं नयनमभावग्रा-
न्यायलीलावतीकण्ठाभरणम्
त्वाभावादित्याह प्रवादेति । प्रवादमात्रं च न मानमिति भावः ।
अभावो मानान्तरमिति भट्टमतमुपन्यस्यति अभाव इति । अन्वयव्यतिकौ दर्शयति न हीति । यन्मते नयनमभावग्राहि तन्मतेऽप्यनुपलम्भसापेक्षमेव, तथाच नयनमाश्रयग्रह एव उपक्षीणमवश्यापेक्षणीयोऽनुपलम्भस्तस्यैव मानत्वादिति भावः । ननु करणत्वे सति प्रमा-
न्यायलीलावतीप्रकाशः
न्तर्भाव इत्याह प्रवादेति । प्रवादमात्रं च प्रमाणमेव न भवतीति भावः ।
न नु योग्यानुपलबधर्मानान्तरम् अभावग्राहकतदुपलंभे च त दभावाग्रहादित्यत आह अभाव इति । नन्वनुपलब्धिर्नाभावग्राहिका किञ्चिदिन्द्रियं स्वरूपसन्नभावश्चेति द्वयमेव तन्द्ब्राहकमित्यत आह नहीति । तथासति शुक्तौ रजतत्वाभावः सन्निकृष्टं चक्षुश्चेति अभावग्रहापत्तौ तद्भ्रमो न स्यादित्यत आह इदमिति । तथा चावश्यकत्वात्तत्र योग्यानुपलब्धिर्मानमित्यर्थः । न च तत्र दोष एवाभावग्रहप्रतिबन्धकः, अभावभ्रमानुत्पत्त्यापत्तेः । न च दोषादेव तदुत्पत्तिः, दोष:
न्यायलीलावतीप्रकाशविवृतिः
आवश्यकत्वादिति । कारणताया इति शेषः । यदि दोषमात्रमभावग्रहप्रतिबन्धकं तदा दोषसत्वे तत एव तदसत्त्वे भ्रमसामग्रीभूतदोषादेवाभावभ्रमः क्क्वापि न स्यादित्याह अभावभ्रमेति । ननु कश्चन दोषोSभावप्रमाप्रतिबन्धकः कश्चनाभावभ्रमजनक इति नोक्त्तदोष इत्याशयेनाह न च दोषादेवेति । दोषस्यापीति । तादृशी च सामन्यनुपलब्धिरेवा. न्वयव्यतिरेकात्, चक्षुरादेधाधिकरणग्रह एवोपक्षयः प्राप्त्यंभावेनाभावप्रत्यक्षहेतुत्वात् विशेषणतायाश्च प्रत्यासत्तित्वानभ्युपगमादिति भावः । नन्वनुपलब्धिर्न तथा किन्तु विषयीभूतोऽभाव एव
- ↑ वेदस्य प्रामाण्यमि० ।