नापि चार्थापत्तिः पृथगुपपद्यते (?) । यद्धि यदभावेन निय-
न्यायलालावतीकण्ठाभरणम्
जीवी देवदत्तो गृहे नास्तीति ज्ञाने सति बहिःसत्त्वं विना जीवतो गृहासत्त्वमनुपपन्नमिति ज्ञानानन्तरं बहिरस्तीति ज्ञानं पीनो ( देवदत्तो ) दिवा न भुंक्ते इति श्रुतार्थानुपपत्त्या रात्रौ भुंक्त्त इति ज्ञानं प्रत्यक्षाद्यसाध्यं करणान्तरं विना अनुपपन्नमर्थापत्तिमानप्रमाणकमिति मीमांस कमतमास्कन्दति नापि चेति । पृथगनुमानादिति शेषः । यद्धीति । जीवतो गृहासत्त्वं बहिःसत्त्वम
न्यायलीलावतीप्रकाशः
यावद्विशेष्य सन्निकर्षस्य प्रत्यक्षाप्रयोजकत्वात् । अन्यथा भ्रमविपरीतप्रत्यभिज्ञानयोर्विलयापत्तेः । तदनन्तरं मानसं ज्ञानमिति भावः ।
जीवी देवदत्तो गृहे नास्तीति ज्ञाने सति बहिःसत्त्वं विना जीविनो न गृहासत्त्वमिति ज्ञानानन्तरं बहिरस्तीति ज्ञानमस्ति, तत्रान्वयव्यतिरेकाभ्यामनुपपत्तिज्ञानं करणमित्यर्थापत्तिर्मानान्तरमिति मते निरस्यति --नापीति । यद्धीति । यद्यतिरेके यस्य नियतानुपपत्तिस्तद्य न्यायलीलावती प्रकाशविवृतिः
न्वेषं संयोगवदेवोभयाश्रयसन्निकर्षे सत्येव ज्ञायेतेत्यत आह-या वद्विशेष्येति । यावत्प्रकाराश्रयेत्यर्थः । तथा च संयोगस्य व्यासज्यवूत्तितया तदाश्रयत्वस्य मिलित पर्याप्त्याऽस्तुभयसन्निकषांपेक्षा त त्प्रत्यक्षे सामान्य सामान्यसाक्षात्कारे तु नैवमिति भावः । यदि च यावत्प्रकाराश्रय सन्निकर्षः कारणं तदा रजतत्वाश्रय सन्निकर्षाभावे रजत भ्रमो न स्यादित्याह अन्यथेति । विपरीतप्रत्यभिज्ञानमपि भ्रान्तप्रस्याभिज्ञानमेवोक्तम् गोबलीवईन्यायाच्च भेदेनोपन्यासः । एतञ्चोपलक्षणम् तथासति रजतादिप्रमाविलयोऽपि द्रष्टव्यः । नन्वेवं गोरसन्निकर्षे तद्विशेष्यकप्रत्यक्षं न स्यादित्यत आह तदनन्तरमिति । काव्यमूलमानसज्ञानवदिति भावः । वस्तुतः सामान्यमात्रं न सादृश्यम्, सप्रतियोगिकत्वानुपपत्तेः, स्वस्यापि स्वसहशत्वापत्तेश्चेति तदसाधारणधर्मव त्त्वभावघटितं तद्वाच्यम् । न च तद्ग्रहः प्रत्यक्षेण तद्सशिकर्षेन योग्यानुपलब्धरभावादिति प्रथमकल्प एव समीचीनः । अत एव हि चित्ताने (१) ० गुपलभ्यते ।