सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


किमीतदेशवाक्यव्यक्तया उत्तरकालीनविमर्शसम्भावितयावा । नाद्यः, केसरो वृक्षपदवाच्य इति वदुपपत्ते: । नेतरः, निमित्ततोप- लक्षणतौदा सीन्येपि [१] वस्तुतोऽन्यतररूपिणोऽप्यस्य शाब्दत्वात् । नान्त्यः, उदासीनस्वभावस्य शब्दावोदतत्वेन विरम्यव्यापारयोगात् [२] । तत्रापि गङ्गार्थमात्रे घोष इति पर्यवसानं स्यादिति चेत् । तेन जलमयस्यैव गङ्गाशब्दवाच्यत्वोपलम्भात् तत्र चानु-

न्यायलीलावतीकण्ठाभरणम्

पमानेनेत्याह किरणावलीकार इत्यर्थः । अत्रापि यथाकथंचित् सामानाधिकरण्यमुपपद्यत एवेति लक्षणेत्याशयेनाह केनेति । केसर इति । वृक्षपदे केसरत्वस्य प्रवृत्तिनिमित्तत्त्वेऽपि सामानाधिकरण्यस्य वास्तवस्य तत्र दर्शनादित्यर्थः । अन्यतररूपिण इति । अस्य गोसादृश्यस्य निमित्ततोपलक्षणत्वयोर्मध्येऽन्यतररूपवत्तया शाब्दाऽनुभवविषयकत्वेन शब्दस्य पूर्व्वमेव पर्थ्यवसानादित्यर्थः । उत्तरकालीनविमर्शसंभावितयेति पक्षं दूषयति नान्त्य इति । निमित्ततोपलक्षणतोदासात् गोसादृश्य सामानाधिकरण्यबोधनात् पूर्वमेवातिदेशवाक्यस्य पर्थ्यवसितत्वात् पुनरन्वयबोधकत्वे विरम्य व्यापारापत्तेरित्यर्थः । तत्रापीति । शक्यलक्षणसाधारणगंगापदान्वयबोधात् क्रमेण लाक्षणिकान्वयबोधने विरम्य व्यापारतापत्तिरित्यर्थः । तेनेति –- प्रथमं श-

न्यायलीलावतीप्रकाश:

केसर इति। यद्यपि केसरत्वं न वृक्षशब्दप्रवृतिनिमित्तं तथापि गन्धवती पृथिवीतिवत् सामानाधिकरण्यं भासते एवेत्यर्थः । अन्यतरेति । अस्य सादृश्यस्योपलक्षणत्व प्रवृत्तिनिमित्तत्वान्यतररूपवतः शब्दान्वयबोधविषयत्वादित्यर्थः । उदासीनेति । अतिदेशवाक्येन गवयत्वस्य प्रवृत्तिनिमित्तस्थान बगमाद्गोसादृक्ष्यमुपलक्षणप्रवृत्तिनिमित्तसाधारण्येन गबयपदवाव्यत्व समानाधिकरणतया बोधितं पश्चाद् प्रवृत्तिनिमित्त. तथा बोधनीयमिति विरम्य व्यापारतापत्तिरित्यर्थः । गङ्गार्थेति । शक्योपलक्ष्यसाधारणगङ्गापदप्रतिपाद्यमात्र इत्यर्थः । तेनेति । प्रथमं लक्षणा-


  1. ↑ सीन इति मु० पु० पाठः ।
  2. ↑ व्यापारापत्तेः ।