मैवम् । प्रथमतो नियतसंवेदनाभावात् । अन्यथोत्तरत्र सन्देहा [१]नुपपत्तेः । ब्राह्मणत्वरत्नत्वसा [२] दृश्यानां तथा सत्यवभासे उत्तरकालं मचुर [३] दर्शनस्य विपरीतशङ्कामात्र विच्छेदफलतापत्तेः । भूयः साहित्ये तु नियतसंवेदनव्यवस्थितौ तत्प्रामाण्य एव
न्यायलीलावतीकण्ठाभरणम्
उपाध्यभावग्रहार्थमपि न तदपेनेत्याह- उपाधीति । प्रथमत इति । यद्यपि प्रथमदर्शनमात्रेणापि व्याप्तिग्रहोऽनुपलम्भबाधित एव, तथापि तत्कल्पने तदुत्तरं व्याप्तिसंशयो न स्यादेवेत्यर्थः । ननु व्याप्तिग्रहः प्रथमदर्शनत एव, व्यभिचारशङ्का तु भूयोदर्शनापनेयेत्यत आह - ब्राह्मणत्वेति । तर्हि ब्राह्मणत्वानामपि प्रथमदर्शनवेद्यत्वमेव स्यान्न च तथाभ्युपगमो वस्तुस्थितिर्वेत्यर्थः । ननु भूयोदर्शनानन्तरमपि संशयतादवस्थ्यमित्युक्तमत आह -- भूय इति । भूयस्त्वं त्रिचतुरादिसाधारण्येनाऽननुगतमपि तर्कावतारक्षेमदर्शनत्वेनानुगतं सद् व्याप्तिग्रहहेतुरिति, तदनन्तरमपि व्याप्तिसंशयश्चेत् तदा नूनं तज्ज्ञानप्रामाण्यसंशयाधीन एवेत्यर्थः । सकृद्दर्शन ग्राह्यत्वं तु शंकाकदर्थितमेवेति भावः । ननु स्वभावोऽधिकरणस्वरूपम्, अधिकरणं च धूमादिस्तथा च सकृ-
न्यायलीलावतीप्रकाशः
भूयस्त्वस्य त्रिचतुरादिभावेनाऽननुगमः । न च व्याप्तेः सकृद्दर्शनग्राह्यत्वे सहचारादर्शनात्तत्र संशयो न स्यादिति वाच्यम, ज्ञानप्रामाण्य संशयात्तत्र संशयस्योपपत्तेरिति भावः । कात्स्यैन सम्बन्धो व्याप्तिरित्यभिप्रेत्याह--- प्रथमत इति । सामग्रीवैकल्यादित्यर्थः । बाधकमाह --- अन्यथेति । विशेषादर्शन सहचारादिसाधारणधर्मदर्शनाद्यभिचारसंशये प्रथमदर्शनाशनान्न व्याप्तिनिश्चय इत्यर्थः । ननु भूयोदर्शनमपि संशायकमित्युक्तमित्यत आह - भूय इति । न चैतद्याप्तेः सकृद् र्शनगम्यत्वेऽपि
न्यायलीलावतीप्रकाश विवृतिः
कोटयुपग्रहो निर्वह्नित्वादिकोट्यभ्युपगमः । न चैतव्घप्तेरिति । सकृद्दर्शनेनापि व्याप्तिगृहीतैवोत्तरकालन्तु ज्ञानप्रामाण्य सन्देहादेव सन्देह