इति । अनैकान्तिकत्वं हि व्याप्तिविरहोन्नायकतया यदि दूषणं तदा तत्र
सोपाधिकत्वं, यद्व्यातिविरहः प्रथमं स एवोद्भाव्यते तर्ह्यनुमेयमनुद्भाव्योन्नाय कोद्भावनावसरः, अप्राप्तकालत्वापत्ते: । व्याप्तिविरहरूपतया चेद् दूषकत्वं यदा कार्तस्न्येन सम्बन्धो व्याप्तिरित्यायातं सा-
न्यायलीलावतीप्रकाशः
अयमर्थः - अनैकान्तिकस्य दूषकत्वं व्याप्तिविरहतया तदुन्नायकतया वा सत्प्रतिपक्षवत् व्याप्तिविघटनमकुर्वतः स्वातन्त्र्येण वा । नाद्यः, उपाधिविरहरूपव्याप्तेरभाव उपाधिरेवेत्यनैकान्ति के उपाध्युद्भावनापत्तेः । न द्वितीयः, व्याप्तिविरहस्योपाधिरूपत्वेनानैकान्तिकंन तदुन्नयने उपाध्युद्भावजापत्तेः। यदुन्नयनद्वारा हि यस्य दूषकत्वं तेन तदवश्यं दुष्टयर्थमुन्नपनीयम् । अन्यथा तदुन्नयनं विनैव तस्य दूषकत्वे तदुन्नायकत्वेन यदूषकत्वमुक्तं तद् भज्येत । न तृतीयः, एवं तत्स्वाद्यदि व्यातिपक्षघमेताज्ञाने लत्यवान्ययप्रयुक्तोऽनुमितिव्यतिरेकः स्यात् ।म त्वेवमनै कान्तिकत्वे व्याप्तिविरहस्यैवानुमविकत्वात् । तस्मादनैकान्तिके आनुभविको व्यातिविरहस्तदैव परसुपपद्यते यदि तस्य व्याप्तिविरहरूपत्वं तदुनायकत्वं वा स्वात्तत्र च बाधकमुक्तमेवेति । वयं सम्प्रदायविदस्तु यथा बाधसत्प्रतिपक्षौ पक्षधर्मताज्ञान प्रतिबन्धकत्वेनासिद्धिवदनुमिति प्रतिबन्धकत्वेन वा दोषों तथाऽनेकान्तिकविरुद्धावण्य सिद्धधनायकत्वेन दोषौ । तथा च व्याप्तेरनौपाधिरूपत्वेऽप्यवश्यमनैकान्तिकत्वनोपाधिरुन्नयनीयः, तर्हि कृत्स्न सम्बन्धत्वेऽपि व्या प्तेरनैकान्ति के तव्द्यतिरेकोद्भावनप्रसङ्ग इति तुल्यम् । मैवम्, अनैकान्ति-
न्यायलीलावती प्रकाश विवृतिः
उक्तान्योन्याभावप्रतियोगितावच्छेदकं यदवच्छिन्नत्वं न भवति तदवच्छिन्न सामानाधिकण्यं व्याप्तिरित्यर्थात् । न चैवं सामानाधिकरण्यमेव व्याप्तिरस्त्विति वाच्यम्, द्रव्यत्वे पृथिवीत्वव्याप्यतापत्तेः । यथा बाधेति । व्यातिपक्षघर्मता चाविरुद्धता हेत्वाभासत्वायोगादितिमतमाश्रित्येदम् । अत एवानुशयादाह – असिद्धिवदनुमिति प्रतिबन्धकत्वेन वेति । एवञ्च दोषत्वमात्रे दृष्टान्तता । स्वमते सम्प्रदायमते च शङ्कते - तीति । तथ्यतिरेकेति । कृत्स्नसम्बन्धव्यतिरेक त्यर्थः । मैवमिति । तथा च मत्पक्षेऽर्थादेव तद्वयतिरेकलाभात्तदुद्भा.