सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९७
न्यायलीलावलीकण्ठाभरण-सविशतिप्रकाशोज्ञालिता


न्यायलीलावतीप्रकाशः

कृत्स्नेन साध्येन साधनस्य सम्बन्धो व्याप्तिः, विषमव्याप्ते तदसम्भवाच्च । न च यावत्साधनाश्रयाश्रित साध्यसम्बन्ध: कार्०त्स्न्यार्थः, साधनाश्रये महानसादौ सकले प्रत्येकवह्नेरभावात् । नापि साधनसमाना. धिकरणयावद्धर्मसमानाधिकरणसाध्यसामानाधिकरण्यं तदर्थः, यावज्रर्मसामानाधिकरण्यं हि यावद्धर्माधिकरणाधिकरणत्वं तच्चाप्रसिद्धं साधनसमानाधिकरणसकलमहानसत्वाद्याधकरणप्रतीतेः ।

 अथ सम्बन्धमात्रं व्याप्तिः, व्यभिचारिसम्बन्ध स्थापि केनचित्समं व्याप्तित्वात् । धूमातिव्याप्तर्विशिष्यैव निर्वतव्येति तत्र लिङ्गपरामर्षविषयव्याप्तिस्वरूपनिरूपणप्रस्तावेऽस्यार्थान्तरत्वात् सम्बन्धमात्रज्ञानाद नुमित्यनुत्पत्तेः ।

 अथ केवलान्वयिनि केवलान्वयिसम्बन्धो व्यतिरोकिणि च साध्यवदन्यावृत्तित्वं व्याप्तिः । न चाननुगमः, एतयोरनुमितिविशेषजनकत्वात् अनुमितिमात्रे पक्षधर्मतायाः प्रयोजकत्वात् । न चातिप्रसङ्गः, विशेष सामग्रीसहिताया एव सामान्यसामग्या जनकत्वात् । मैवम् । साध्यवदन्यावृत्तित्वस्य धूमेऽप्यसत्त्वात् वह्निमत्पर्वतादन्यत्र धूमस्य वृत्तेः । न च सकलसाध्यवदन्यावृत्तित्वं वह्नि मतां प्रत्येकमपि सकलसाध्यवदन्यत्वेन धूमस्याप्यतत्वात् । नापि

न्यायलीलावतीप्रकाशविवृतिः

भिचारि न वेति संशयेन संशयाधानमुक्त संशयस्यैव विना सामान्यलक्षणमनुत्पत्तेः । प्रसिद्धचह्निव्यभिचारिवृत्तित्वे बाधनिश्चयादप्रसिद्धस्य तस्याज्ञानादिनि दिक् ।

 इदं च मूलदूषणमुभयसिद्धेन प्रकारेण सामान्यलक्षणासिद्धिरस्त्वित्यभिप्रायेण । अस्मन्मतरीत्या तु मूलमेव सम्यक् । तथा हि समानप्रकारत्वेन ज्ञानस्येच्छाकृतिजनकत्वे घंटे पटत्वेनेच्छाकृत्यापत्तिः न च जनकीभूतज्ञानप्रकाराश्रयविषयत्वमिच्छायाः कृतेश्च स्वभावोऽ सिद्धविषयत्ववदिति वाच्यम्, रजतज्ञानाच्छुक्ताविच्छा कृत्यनापत्तेः । न च तत्र रजतज्ञाने स हेतुरेवेति वाच्यम्, इष्टज्ञानस्य सामान्यत एव हेतुत्वावधारणादिति । एवं चानुमितेर्विशेषणज्ञान जन्यत्वेनापि सामान्यलक्षणासिद्धिः ।

 अन्योन्यात्यन्ताभावभेदेन लक्षणद्वयमाशङ्कते - नापि साध्यासामाना-