कल्पकम् । तत्रापि प्रत्यभिज्ञानमेकं तत्तेदन्तावभासि । न चात्र
तत्तेदन्ते पारक्ष्यिापारोक्ष्ये येन विरोधिधर्मसंसर्गाद्भेद: स्यात् ।
परोक्षार्थत्वेऽपि [१] सोऽग्निमानयमग्निमानिति स्फुरणात् । नापि
न्यायलीलावतीकण्ठाभरणम्
। तौल्यमित्याह - तत्रेति । अभिलापसंसर्गरहितमपि प्रत्यक्षं स्यादित्याह - तदिति । सन्दिग्धव्यतिरेकित्वं विपक्षबाधकतर्कशुन्यत्वं सन्दिग्धानकान्तिकत्वं वा । तुल्यमिति | अभिलापसंसर्गप्रतिभानमपि प्रत्यक्षं स्यादित्यत्रापि सन्दिन्धव्यतिरे कित्वमित्यर्थः । तादृशमिति । प्रत्यक्ष मित्यर्थः । तदेति । निर्विकल्पकमपि नेन्द्रियजं स्यादित्यर्थः । तस्य चेति । इन्द्रियस्येत्यर्थः । 'अर्थाधिपत्यम्' अर्थसहकारित्वम् । 'तजन्यम्' अर्थजन्यम् । 'तच्च' तदपि । यथा निर्विकल्पकमर्थसामर्थ्यसमुत्थं तस्मात् साक्षात्कारि सविकल्पकमपीत्यर्थः ।
'तत्रापि' सविकल्पकमध्येऽपि । 'तत्तेदन्तावभासि' तत्तेदन्ताविशिविषयम्। ननु तत्वांशे पारोक्ष्यमिदन्तांशे चापारोक्ष्यमतो विरुद्धधर्मसं सर्गात् प्रत्यभिज्ञानं नैकमित्यत आह --- न चेति । यदि पारोक्ष्यार्थविष यत्वं पारोक्ष्यं सा च तत्ता स्यात् तदा कदाचित् सोऽग्निमान् कदाचिदयमग्निमानित्यनुमितावाकारभेदो न स्यादित्याह --- परोक्षार्थत्वेऽपीति ।
न्यायलीलावतीप्रकाशः
तत्रापीति । तादृशमिति । अबाधितं सत् साक्षात्कारित्वेनानुभूयमानमित्यर्थः। तस्य चेति । इन्द्रियजन्यस्य चार्थाधिपत्यनियमादर्थान्वयव्यतिरेकनियमात् | 'वज्जन्यम्' अर्थजन्यं यतोऽतस्तत् सविकल्पकमध्यक्षमिति योजना ।
तत्रापीति । तेष्वपि साक्षात्कारिसविकल्पकेषु मध्य इत्यर्थः । ननु प्रत्यभिज्ञाने तत्तेदन्ता विशिष्टयोरभेदः प्रथते ते च पारोक्ष्यापारोक्ष्यरूपे तत्सम्बन्धात प्रत्यभिज्ञानमेकं न स्याविरुद्ध धर्माध्यासादित्यत [—न चेति । परोक्षत्वेऽपीति । यदीदन्ताविषयत्वमेवाऽपारोक्ष्यं तदाऽय
न्यायलीलावतीप्रकाशविकृतिः
भावः । सन्दिग्धव्यतिरेकित्वमिति मूलम् । अप्रयोजकत्वमित्यर्थः । तत्सम्बन्धाद्विषयत्वलक्षणादित्यर्थः । यदीति | विषयतापारोक्ष्ये दण्डावि-
- ↑ परीक्षापरोक्षार्थत्वेऽपि । परोक्षत्वेऽपीति प्रकाशधृतः पादः।