सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


 अनध्यवसायोऽपि समुञ्चिताशेप विशेषविषयो वा वाच्यो, व्याप्तिबोधवत्, अनिश्चितैकविपयो वा, असमुच्चितनानाविषयो


न्यायलीलावतीकण्ठाभरणम्

ल्पयति — अनध्यवसायोऽपीति । सर्ववाचकवाच्योऽमिति वा तस्य विषयः किञ्चिद्वाचकवाच्योऽयमिति वा आत्माऽयं वा कोविदारोऽयमिति

न्यायलीलावतीप्रकाशः

म्यमित्यर्थः । ननु तमसः कादाचित्कत्वान्नात्यन्ताभावरूपत्वं प्रागभावप्रध्वंसौ च न समानकालप्रतियोगिनौ । मैवम् । अभावसमुदायगोचरप्रत्यये किञ्चित्समुदायिव्यतिरेकात् कादाचित्कत्वोपपत्तेः पृथग्भूतषु समुदायिषु नेदानीं राशिरितिवत् । अधिकन्तु द्रव्यप्रकाशे विपश्चितमस्माभिः ।

 अनुपलब्ध सपक्षविपक्षसहचारस्यासाधारणधर्मस्य दर्शनात पनसादौ किञ्चिदयमिति ज्ञानमनेककोटिक मनध्यवसायः संशयभिन्नो विषयभेदादिति तद्विषयं विकल्पयति-अनध्यवसायोऽपीति । अयं धर्मी मिलित सर्ववाचकत्राच्य इति विषय इत्यर्थः । व्याप्तीति । यथा धूमो वह्निव्याप्य इत्याकारे व्याप्ति हे सर्वधूमवह्निव्याप्तिर्विषय इत्यर्थः । अनिश्चितेति । अनिर्द्धारितैकवाचकवाच्यत्वं विषय इत्यर्थः । असमुच्चितेति ।

न्यायलीलावतीप्रकाश विवृतिः

परदिनतेजसोः संसर्गाभावात् । न च दोषातनत्वं विशेषणं दिवात. नाऽवतमसाव्याप्तेः । न च अन्यून संख्प्रतेजः ससर्गाभावोऽवतमसमिति वाच्यम्, अनन्तदिन सम्बन्धितेजसां संसर्गाभावसत्त्वेन तथापि दिनेऽतिव्याप्तेरिति । मैवम्, आलोकाजन्यनीलविशिष्टचाक्षुव साक्षात्का रविषयत्वं तमःसामान्यलक्षणम् । वाह्यालोकसम्बलितं च तदेवावतमसलक्षणमिति भावात् । छाया च यदि नाऽवतमसं तदा तदन्यत्वमपि विशेषणम् । छायास्वं चालोकाजन्यगत्यारोपविषयतावच्छेदकावच्छिन्नभावसमुदायत्वमिति दिक् ।

 प्रागभावेति । अन्धकारकालेऽपि देशान्तरे तत् सत्त्वादिति भावः । पृथगिति । न च तद्रव्यत्वगुणत्ववमात्रं (?) न व्यतिरेक इति वाच्यम्, तेद्देशे व्यतिरेकस्य सत्त्वादिति ।

 अयं धर्मीति । सर्ववाचकत्याधुत्तरप्रस्थानुरोधेन वाचकवा-