सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


स चायं सादृश्यानपेक्षस्तिक्तो गुड इत्यादौ भ्रमः | अन्य-


न्यायलीलावतीकण्ठाभरणम्

न्यत्वमत्रोपाधिरित्यर्थः । प्रकृते च दोषजन्यत्वस्यान्वयव्यतिरे कासवादिति भावः । असंसर्गाग्रहस्य तन्मतेऽधिकरणरूपत्वान्न तेनान्यन्यासिद्धिः आरोप्यारोपविषयसारूप्यज्ञानमारोपे तन्त्रमिति किरणावलीकारमतमास्कन्दति --- स - सचायमिति । न हि शुक्तिरजतसारूप्यवदत्रापि सारूप्यमस्तीति भावः । ननु रजतभ्रमे सारूप्यनिबन्धनत्वदर्शनात् अन्यत्रा. पि तत् कल्प्यतामित्यत आह - अन्यत्रापीति । अन्यथासिद्धं तत्रापि

न्यायलीलावतीप्रकाशः

दोषजन्यत्वं परेषां ज्ञानमात्रस्य तादृशतया साधनव्यापकत्वात् । अन्यथा तयोरेव साध्याव्यापकत्वात् । नाण्यप्रयोजकत्व प्रवृत्ति प्रति विशिष्टज्ञानत्वेन हेतुत्वस्य व्यवस्थापितत्वादिति संक्षेपः । अधिकं तु न्यायप्रथमाध्यायनिबन्धप्रकाशे विपञ्चितमस्माभिः ।

 सर्वत्रारोपे आरोग्यारोपविषययोः सारूप्यग्रहः कारणमिति मतं व्यभिचारान्निराकरोति स चेति । विपर्यय इत्यर्थः । न च गुडे तिक्त्तरसससंर्गारोपेऽध्य संसर्गाग्रहः संसृष्टसारूप्यमस्येवेति वाच्यम्, असंसर्गाग्रहस्य स्वरूपसत एवारोपहेतुत्वात् सारूप्यस्य च ज्ञातस्य तत्त्वात् संसृष्टाविमाविति प्रतीत्यापत्तेश्च । नन्वनुभूयमानारोपे व्यभिचारेऽपि स्मर्यमाणारोपे तदभावात् कारणत्वं स्यादित्यत आह --- अन्यत्रापीति । तथा हि सारूप्यं न स्वरूपे सदेव भ्रान्तौ हेतुः, आरोप-

न्यायलीलावतीप्रकाशविवृतिः

इति द्वितीये । प्रकृति (वृत्ति?) तुल्यन्यायतया लिङ्गा संसर्गाग्रह पवाऽनुमितिसामग्रीति सामग्रीबलादेवाऽन्यथाख्यातिसिद्धिः। अथ लाघवेनानुमितौ विशिष्टज्ञानं कारणं तर्हि तद्वदेव प्रवृत्तावपि तत्कारणमिति कारणत्वेनैवाऽन्यथाख्यातिकारणबाधस्यानिरस्तत्वेन गौरवस्य प्रामाणिकत्वाभावादित्यभिसन्धायाह ---- सङ्क्षेप इति ।

 तिक्त्तो गुड इत्यादावेव सादृश्यानपेक्ष इति भ्रमं निवारयति --- विपर्यय इतीति । तथा च विपर्यय: सादृश्यानपेक्षस्तिक्त्तो गुड इयत्र भ्रमो यत इति हेतुत्वेन सदुपन्यस्तमिति भावः । असंसर्गाग्रह इति । अगृहीतासंसर्गत्वामेत्यर्थः । संसृष्टाविमाविति । संसृष्टसारूप्येण प्रती-