स्यात् संसर्गानुपलम्भबलेनासंसर्गव्यवहारोऽपि दुर्वारः । तस्माद्
यो व्यवहारः स व्यवहर्तव्यप्रकाशनिवन्धनो यथा कलसव्यवहारः। व्वयवहारक्ष्चायं विमतिगोचर इति । अपि च वाष्पपूरगोचरधूमव्यवहारोपचाराद्भवति शिखरिशिखरगोचरविचित्र
चित्रभा-
न्यायलीलावतीकण्ठाभरणम्
प्रमाणमाह - तस्मादिति । नन्विष्टतावच्छेदकप्रकारोपस्थितेष्टभेदाग्रहात् प्रवृत्तिरस्तु न त्वनिष्टभेदाग्रहान्निवृत्तिरपि अनिष्टस्यानिष्टतावच्छेदकप्रकारेणानुपस्थितेरिति चेत्, इदं रजतं न शुक्तिरित्यत्रोभयापत्तेः । अनिष्टमनिष्टतावच्छेदकप्रकारेण उपस्थितमपि न स्वातन्त्र्येण किन्त्वभाव प्रतियोगितयेति चेन्न गृहनिष्ठाभावप्रतियोगीदं रजतमित्यादिप्रकारकभ्रमादप्रवृत्त्यापत्तिप्रसङ्गात् तत्र इष्टस्य स्वातन्त्रेणानुपस्थितत्वात् । किञ्च इमे रङ्गरजते इति भ्रमे युगपत प्रवृत्तिनिवृत्तिप्रसङ्गात्। इष्टानिष्टयोस्तुल्यवदुपस्थितेः शुक्तिविषयप्रवृत्तिजनकं रजतत्त्वप्रकारकं शुक्तिविषयकं तद्विषयतां विना तद्विषये प्रवृत्यजननात् । ज्ञानस्य स्वविषये प्रवर्त्तकत्वस्य सर्वेरेवाहतत्वात् । अन्यथाऽतिप्रसङ्गात् । प्रत्यक्षप्रमाया अन्यथाख्यातित्वमुपपाद्यानुमित्यादेस्तदुपपादयति--- अपि चेति । धूमज्ञानानन्तरं पर्वते वह्निज्ञानात् प्रवृत्तिर्दृश्यते । सा यदि
न्यायलीलावतीप्रकाशः
अपि च रजतरङ्गयोरिमे रङ्गरजते इति समूहालम्बनभ्रमादिष्टानिष्टतावच्छेदकरूपेण स्वातन्त्र्योपास्थितोभयभेदाग्रहात्प्रवृत्तिवन्निवृत्यापत्तिः । अथेमे रङ्गरजते इत्यत्र रङ्गे किञ्चिद्भेदः प्रतीयते रजतभेदस्तु न ज्ञाय ( त ?) इत्युभयसिद्धम् । तथा च रङ्गनिष्ठतयोपस्थितस्य भेदस्य रजतप्रतियोगित्वाभावग्रहादूरङ्गे प्रवर्त्तते रजतनिष्ठतयोपस्थित स्य भेदस्य रजतप्रतियोगित्वाभावो न गृह्यत इति न तत्र प्रवर्त्तते । यद्वा रजतवृत्तितयोपस्थितभेदस्य रजतभेदेन सह भेदाग्रहो रजते
न्यायलीलावतीप्रकाशविवृतिः
त्रास्त्येव । यद्वा पुरोवतिगृहीता [१] संसर्गभेद प्रतियोगित्वेनानुपस्थितत्वमिष्टे ताहगत्यन्ताभावप्रतियोगित्वेनानुपस्थितत्वमिष्टतावच्छेदके च स्वातन्त्र्यमिति नोक्तदोष इत्यनुशयादाह--अपि चेति ।
- ↑ पुरोष गृहीतास ० ।