दाध्यासिताः सर्वे प्रत्यया यथार्था: प्रत्ययत्वात् घटप्रत्ययवदिति गुरुमततत्त्ववेदिनः ।
अत्रोच्यते । व्यवहारो हि व्यवहर्तव्योपलम्भनिबन्धनो
न्यायलीलावतीकण्ठाभरणम्
द्धसाधनवारणाय विवादाध्यासिता इति ।
व्यवहारो हीति । इदं रजतमित्यत्राभेदो व्यवह्नियते । स चाभेदोपल-
न्यायलीलावतीप्रकाशः
स्य रजतत्व पुरोवर्त्तिज्ञानत्वेन हेतुता न तु रजतपुरोवर्त्तिविशिष्टज्ञानत्वेन गौरवात् । एवं च तत्र रजतपुरोवर्त्तिज्ञानत्वमेकत्र ज्ञाने अत्र ज्ञानद्वय इति विशेषः । सर्वे प्रत्यया इति । ननु प्रसिद्धज्ञानपक्षत्वे सिद्धसाधनमतिरिक्तज्ञानपक्षत्वे चाश्रयासिद्धेिः। किञ्च घर्मिणि सर्वज्ञानानां यथार्थत्वात् सिद्धसाधनम् । न चायथार्थत्वाभावः साध्यः प्रतियोग्यप्रसिद्धेः । मैवम् । ज्ञानत्वं न विशेष्यावृत्तिप्रकारावच्छिन्नवृत्ति ज्ञानमात्रवृत्तिधर्मत्वात् प्रमात्ववदिति विवक्षितत्वात् । भेदाग्रहकारितायां शुक्त्तौ रजतत्वेन पुरोवर्त्तिनमिच्छामीत्यत्र इच्छायां विशेष्यावृत्तिना रजतत्वेनावच्छेदस्य प्रसिद्धत्वात् ।
व्यवहारो हीति । व्यवहारोऽत्रेच्छा प्रवृत्तिरूपः । अयमर्थः - रजते च्छाजन्यशुक्तिविषयक प्रवृत्तिजनकं रजतज्ञानं शुक्तिविषयकं तद्विषयतां विना तद्विषयप्रवृत्त्यजनकत्वात् सर्वैरेवाद्यप्रवृत्तौ लाघवादुपस्थितत्वाच्च ज्ञानं स्वविषये प्रवृर्त्ति जनयतीत्यनन्यथा सिद्धकारण-
न्यायलीलावतीप्रकाशविवृतिः
कूटस्याकारणत्वात् । न चैवं गौरवं कारणबाधेन विशिष्टज्ञानबाघे प्रामाणिकत्वादिति दिक् । अत्रेति । भ्रमस्थल इत्यर्थः । यद्यपि रजतपुरोवत्तिज्ञानत्वं तदुभयविषयज्ञानत्वं तच्च न प्रत्येकमिति नोभयत्रापि, तथापीष्ठज्ञानं भेदाग्रहे कारणतावच्छेदकमिदं ज्ञानमेव समानविशेष्यकतया प्रवर्त्तकमित्यत्र तात्पर्यम् । व्यवहारो यदि व्यवह्नियत इति व्युत्पत्या ज्ञानमुच्यते तदा तस्य व्यवहर्त्तव्योपलम्भनिबन्धनत्वं विरुध्येतेत्यत आह - व्यवहारोऽत्रेति । ननु व्यवहर्त्तव्यस्य शुत्तयादेरिदमित्याकारोपलम्भो वर्त्तत एवेत्यत आह --अयमर्थ इति ।