माभास भूतं देशकालान वच्छिन्नरजतत्व समवायिस्मरणदर्पणारूढ-
न्यायलीलावतीकण्ठाभरणम्
नरूपाऽसिद्धिर्न दोष इत्यत आह - आभासभूतमिति । तस्याप्याभासत्वादित्यर्थः । रजतत्वासंसर्गाग्रहस्य प्रवर्त्तकत्वमुक्त्वा इष्टभेदाग्रहस्य तदाह – देशेति । भेदज्ञानार्थमाह - देशकालानवच्छिन्नेति । रजतत्वपुरोव-
न्यायलीलावतीप्रकाशः
ङ्क्षधर्मिस होपलम्भस्य सम्बन्धनियतत्वात् संयोगबाधे समवायसिद्धिः। अप्रतीतत्वमात्रं न दोष इत्यत उक्तमसिद्धम् । अस्यापि दोषत्वमाह -- आभासेति । हेत्वाभासस्य चानुमित्यसाधारणदोषत्वमिति भावः। एवं पुरोवर्त्तिव्यक्तिरजतत्वयोरसंसर्गाग्रहस्य प्रवत्तकत्वमुक्त्वा पुरोवर्त्तिव्यक्तिरजतत्वाश्रययोर्भेदाग्रहस्य तदाह – देशकालेति । प्रत्यक्षेणेदमिति शुक्तिर्गृह्यते दोषात्तत्र शुक्तित्वं न गृह्यते गृहीतेन शुक्लभास्वरत्वेन रजतं स्मार्यते दोषात्तयोर्भेदः सन्नपि न भासते । एतावता रजतार्थिप्रवृत्तिर्जायते । यत्र सत्यरजते प्रवृत्तिस्तत्रापि रजतेन भेदाग्रहोऽस्त्येव परं तत्र विद्यमानतया भेदो न गृह्यते । शुक्तिरजतयोस्तु सन्नपि न गृह्यत इति न कश्चिद्विशेष इत्यर्थः । येनापि शुक्तिरजतयोस्तादात्म्यमानं वाच्यं तेनापि तयोर्भेदाग्रहो वाच्यः, भेदग्रहे सत्यभेदारोपायोगात् । तथा च तावन्मात्रमेवास्तु लाघवादिति यदारोपे हेतुस्तत्प्रवृत्तावेवास्तु न चैवं ज्ञानसाध्यव्यवहारोपपत्तौ ज्ञानमात्रापलापः, अनन्यथासिद्धं
न्यायलीलावतीप्रकाशविवृतिः
बाघकाभाव पदेन स्वरूपसम्बन्धाविषयत्वस्योक्तत्वात् । न च विसंवादिस्थले व्यभिचारः | अविसंवादिव्यवहारजनकत्वस्यापि विशेषणत्वात् । एवञ्च बाधका भाववैशिष्ट्यात्मकत्वादित्यस्य बाघकाभाववैशिष्ट्य विशेषणकत्वादित्यर्थः सम्पद्यते । केचित्तु निर्विषयकभावमात्रविषयक विशिष्टसाक्षात्कारित्वमेव हेतुरनेनोपलक्षित इत्याहुः । स म्बन्धनियतत्वात्' अतिरिक्त सम्बन्धनियतत्वात् । ननु भेदग्रहापेक्षया ऽभेदज्ञानमेव लध्विति तदेव प्रवृत्तिकारणमस्त्वित्यत आह -- येनापीति । तथा च तस्यावश्यकतया तद्धेतोरेवेतिन्यायात्स एव कारणमिति भावः । ननु शुद्धिं रजततयाऽज्ञासिषमिति प्रतीतिबलामोऽपि वि-