विपर्ययोऽप्यतस्मिंस्तदिति प्रत्ययः । यथा शुक्तिकायां रजतमिति ज्ञानम् । ननु चात्र पुरोवर्त्तिज्ञानं दोषवशोपजाततदंशमोषं रजतत्वसामान्यस्मरणं, रजतत्वस्य च पुरोवर्तिनि समवायतदभावयोरज्ञानं प्रवृत्तिव्यपदेशादिरूपव्यवहारे कारणम् । सत्यरजतेऽपि तथैव प्रवृत्तिदर्शनात् । तत्रापि रजतव्यक्तिज्ञानं
न्यायलीलावतीकण्ठाभरणम्
त्वं जातिचा क्षुषत्वादिना परापरभावानुपपत्तेः । न च सर्वत्र मानस एव संशयः, चक्षुराद्यन्वयव्यतिरेकदर्शनात् । सौदामिनीसम्पातादिस्थले मानसोऽपि स्यान्न विरोधः, धर्म्मांशेऽपि संशयत्वापत्तेः, जातेर्याप्यवृत्तित्वात् । मैवम् । एकधभ्मिकविरोधिनानाप्रकारकज्ञानस्य संशयत्वात् लक्षणवाक्यजन्यज्ञानस्य विरोधिनानाप्रकारकत्वप्रकारकत्वादिति ।
विपर्थ्य योऽपीति । जाग्रद्दशाकविशेष्यावृत्तिप्रकारकनिश्चयत्वमिति लक्षणम् । ननु प्रवृत्तिः पुरोवत्तिनि ज्ञानं च रजतत्वप्रकारकमतः प्रवृत्यनुरोधादन्यथाख्यातिः स्वीकर्त्तव्या प्रवृत्तिश्चान्यथोपपन्नेत्याह-- ननु चेति । पुरोधर्त्तिनि रजतत्वस्य समवायज्ञानेऽन्यथा ख्यातिस्तज्ञाने चाप्रवृत्तिरित्याशङ्ख्याह - रजतत्वस्येति । नन्वेमननुगम इत्यत आह - सत्यरजतेऽपीति । अनुगमने वाऽह -तत्रापीति । ननु तत्र समवाये सति कथं
न्यायलीलावतीप्रकाशः
विपर्ययोऽपीति । निश्चयत्वे निद्राद्यजन्यत्वे च सवि विशेष्यावृत्तिप्रकारकं ज्ञानमित्यर्थः । ननु पुरोवर्त्तिनि रजतत्वसमवायग्रहणे विशिष्टज्ञानस्वीकारापत्तिः, तद्भावग्रहणे चाप्रवृत्तिप्रसङ्ग इत्यत आह ---- समवायेति । ननु संवादिरजतार्थिप्रवृत्तौ सामग्यून्तरकल्पनादननुगमः
न्यायलीलावतीप्रकाशविवृतिः
संशयानध्यवसायस्वप्रेष्वतिव्याप्तिभयादाह - निश्चयत्व इति । निश्चयत्वं न संशयभिन्नत्वमनध्यवसायातिव्याप्तितादवस्थात्, किन्तु अविरोधिकोटिकत्वम् । केचित्तुं निद्रादीत्यादि पदेनानध्यवसायकारणग्रहात्तेनैवानध्यवसायवारणे निश्चयत्वं संशयभिन्नत्वमेवेत्याहुः ।