पृष्ठम्:न्यायलीलावती.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४००
न्यायलीलावती


श्रयत्वे नभसि शब्दजनननियम [१] इति किरणावलीकारः।तन्न, यत् संयुक्त संयोग बहुत्वविशेषावच्छिन्न संयोगाधिकरणत्वेन प्रतिसन्धीयते तत्र परव्यवहारो न तु प्रमातरि तस्यावधित्वेन प्रतीतेः । यदा तु प्रमातैव तदधिकरणत्वेन प्रतीयते [२] तदा भवत्येव प्रमातरि परव्यवहारो वाराणसीतः परोऽहमिति । संयोगस्वभावत्वे परत्वस्य संयोगिनिरूप्यत्वं स्यात्, न त्ववधिनिरूप्यत्वमिति चेन, संयोगभूयस्त्वाल्पीयस्त्वयोः परापरव्यवहारविषयत्वेनैव तदुपपत्तेः ।


न्यायलीलावतीकण्ठाभरणम्

तन्नेति । अत्रावधित्वेनाप्रतीयमानत्वे सति संयुक्तसंयोगाधिकरणत्वेन प्रतीयमानत्वं परत्वापरत्वधीनिबन्धनमतो न प्रमातरि प्रसङ्ग इत्यर्थः । तत्रैव व्यवहारं दर्शयति - यदा त्विति । तदुपपत्तेरिति । अवधिनि-

न्यायलीलावतीप्रकाशः

अभ्युपगमवादः । वस्तुत आत्मनो विभुत्वात्तत्र परादिव्यवहाराभावात् । मूर्त्तत्वस्यैतत्समवायिकारणतावच्छेदकत्वात् । किञ्चित्संयुतसंयोगभूयस्त्वाधिकरणत्वेन प्रतीयते किञ्चित्तवाधित्वेन । तत्राद्ये परापरव्यवहारो नित्यः, मत्तः परा वाराणसीत्यत्रावधित्वेन प्रमातुः प्रतीहेर्न तत्र व्यवहारः स्यादित्याह- यत्संयुक्तेति । यदा त्विति। न त्वववधित्वनेति शेषः । प्रमातरीति । शरीर इत्यर्थः । न त्वात्मनि तस्य विभु त्वादित्युक्तम् । ननु परत्वादे: सावधित्वेन प्रतीतर्न संयोगेन तदन्यथासिद्धिः । संयोगस्य सावधित्वाभावात् । इदमनेन संयुक्तमिति प्रतिपत्तिवत, नत्वस्मादिदं संयुक्तमित्याह –-- संयोगस्वभावत्व इति । संयोग-

न्यायलीलावती प्रकाशविवृतिः

व्वक्त एव अनेन च किरणावलीलिखनानुरोधेनैव लिखित इति भावः।

 ननु जनकशक्तिवचित्र्यं जनकस्वभाववैचित्र्यं तच्च नात्र निया मकम् सत्यात्मनो योग्यत्वे परत्वाद्युत्पत्तेरावश्यकत्वान्नित्यस्येत्यादिन्यायादित्यरुचेराह - वस्तुत इति । किञ्चिदिति । भूयःसंयुक्तसंयोगा-


  1. ०जननशक्तिरिति कि० ।
  2. ० तिसन्धीयते ।