पृष्ठम्:न्यायलीलावती.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८२
न्यायलीलावती


रक्तारक्तरूपम् । विज्ञानस्य भेदानुभवो ज्ञानान्तरेण वा तेनैव वा । नाद्यः, भेदे ग्राह्यलक्षणायोगात् । अभेदे तु रक्तारक्तात्मना [१] स्वसंवेदनेन भेदानुभवस्यापनयनादभिन्नं ज्ञानमिति चेन्न,अभेदेऽपि रक्तस्वभावमरक्तस्वभावं वाऽनुभुयते न तु रक्तारक्तस्वभावमिति प्रकाशमानस्य भेदस्यापह्नवायोगात् । भेदाभेदाभ्यामशक्यविवेचनमाकारचक्रमिति चेन्न, बाह्यमध्येवमेव । बाह्य-


न्यायलीलावतीकण्ठाभरणम्

यति विज्ञानवादी - विज्ञानस्येति । रक्तारक्तस्वरूपमेकमेव ज्ञानं तच्च न रक्तत्वारक्तत्वलक्षणविरुद्धधर्म्म संसर्गज्ञानात्मना तयोरनाकलनादित्यर्थः । एकं चेत् कुतो विरुद्धोभयस्वाभाव्यमात्मनो गृह्णीयात् कथं वा ताडशमुत्पद्येतेत्यत आह सिद्धान्ती - नेति । रक्तारक्तस्वभावस्य विरुध्दोभय स्वाभाव्यं स्वयमध्यनुभूयमानं दुरपह्णवमतः किञ्चित् ज्ञानमेक स्वभावं किञ्चिच्चानेकस्वभावमगत्याऽभ्युपेयमिति शङ्कते- प्रकाशति । विज्ञानाद्विषयचक्रं भिन्नमभिन्नं वेत्यशक्यविवेचन मिति शङ्कार्थ इति केचित् । एवं किञ्चिद्वस्तु स्वाभावव्यधिकरणं किञ्चिच्च समानाधिकरणमिति न विरोध इति परिहरति — नेति । रक्तात् पटादरक्तः पटो भिन्न एव परन्तु य एव रक्तः स एवारक्त इत्याविद्यकः प्रत्यय इति

न्यायलीलावतीप्रकाशः

इत्याह –विज्ञानस्थेति । रक्तज्ञानस्यारक्तज्ञानस्य च मिथो भेदानुभव इत्यर्थः । अभेदे त्विति | रक्तत्वारक्तत्वयोर्ज्ञानात्मकत्वस्य चाभिन्न त्वात् क विरोध इत्यर्थः । रक्तत्वमरक्तत्वं च विरोधि चेत् कथं तदात्मकं विज्ञानमेकम् । अथैकन प्रतीतत्वान्न तयोर्विरोधस्तदा वाह्येऽपि समानमेतदित्याह – अभेदेऽपीति । ननु प्रकाशमान भेदस्यापहो तुमशक्यत्वाद्भेदे च ग्राह्यलक्षणायोगादभेदे चोक्तविरोधात् विषयचक्रं विज्ञानाद् भेदाभेदाभ्यामशक्याववेचन मेवेत्याह - प्रकाश्य (श?)मानस्येति । यद्यन्यत्राभेदेन शक्यविवेचनमध्याकारचक्रमत्रानुभवबलादशक्यविबेचनमभ्युपेयं तदा चाह्यमपि संयोगतदत्यन्ताभाववदभ्युपयतामनुभवबलादेवेत्याह – बाह्यमपीति । अभ्युपेत्याह – बाह्यस्येति । तथा


  1. ० तात्मनि ।