पृष्ठम्:न्यायलीलावती.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७०
न्यायलीलावती

वदुपपत्स्यत इति चेन्न, तत्र दण्डाधिकरणत्वस्य मत्वर्थीये प्रतिपाद्यमानत्वात् । तस्मात् पृथक्त्वगुणनिरूपकत्वमेवावधि


न्यायलीलावतीकण्ठाभरणम्

प्रत्यक्षमेव तत्र प्रयोगमात्रदर्शनात् दण्डीति व्यपदिश्यते । प्रकृते अनुशासनस्य पञ्चम्या वाचकत्वस्याभिलप्यमानस्य च ज्ञानमर्वा त्वज्ञानेऽपेक्षित मिति वैषम्यमित्याह – नेति । यत्तु दण्डी पुरुषो ण्डपुरुषसंयोग इति विषयावैचित्र्येऽपि प्रतीति वैचित्र्यं यथा तः घटः पटात् पृथक् घटः पटो न भवतीत्यपि विषयावैचित्र्येऽ वैचित्र्यमेव स्यादिति व्याख्यानं तच्चिन्त्यं मूलानुरोधात् । तां किमवधित्वमत आह - तस्मादिति ।

न्यायलीलावतीप्रकाशः

दित्याह - दण्डीति । तत्रापि विषयवैचित्र्यमस्त्येवेत्याह- तत्रेति तस्मादिति । ननु अवधित्वं न पृथक्त्वनिरूपकत्वमन्योन्याश्रयात् न च यो वस्तुगत्याऽवधिस्तन्निरूप्यं पृथक्कं पृथक्वनिरूपणात् प्रा तत्रावधित्वाभावात् । अत एव पृथक्वात्यन्ताभाववत्त्वमवधित्वमप स्तम् । अवधौ ज्ञाते पृथक्कज्ञानं तज्ज्ञाने च तदत्यन्ताभाववत्त्वज्ञ नमिति परस्पराश्रयत्वात् । मैवम् । पृथक्वसामान्यज्ञानपूर्वकत्वार

न्यायलीलावती प्रकाशविवृतिः

तथा चोक्तार्थतैव नास्तीति भावः । 'वाचकत्वे' प्रतिपादकत्वे । व स्तुतः प्रतियोगित्वावधित्वयोर्भेदेऽनुभव एव मानम् । प्रतियोगि च पञ्चम्याः शक्तिरक्लप्तैवेत्येव पृथक्त्वसिद्धौ मानम् ।

 मिश्रास्तु द्वौ पृथगिति प्रतीत्या द्वित्वावधित्वं (वच्छिन्नत्वं? पृथक्त्वस्य विषयीक्रियते । न चान्योन्याभावस्य तदवच्छिन्नत्वम् अतिरिक्तवृत्तित्वात् । अन्यूनानतिरिक्तव्यक्तिकत्वस्य च प्रकृतेऽवच्छे दकत्वपदार्थत्वात् । न च द्वित्वसामानाधिकरण्यमात्रं तत्र विषयो ऽवच्छेदकत्वबाधे सत्येव तथा कल्पनादिति पृथक्त्वं गुणः । एवं तदसमवायिकारणत्वेनैकपृथक्त्वमपि गुणः । न चैकत्वमेव तदस मवायिकारणं तदसमवायिकारणत्वे संख्यात्वापत्तेरिति वदन्ति ।

 अन्योन्याश्रयादिति । अवधित्वे ज्ञाते पृथक्त्वज्ञानं तज्ज्ञाने चावधित्वज्ञानमित्यर्थः । ननु पृथक्त्वसामान्यज्ञानस्याऽव्यवधिज्ञानसाध्यत्वाद-