पृष्ठम्:न्यायलीलावती.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६८
न्यायलीलावती


वक्रत्व [१] ऋजुत्वादिकमपि परिमाणान्तरं [२] यात् | [ इति परिमाणम् । ]

 अथ पृथक्त्वे किं प्रमाणम् । पृथगिति प्रत्यय इति चेत्, न, तस्यान्योन्याभावावलम्बनत्वात् । अन्यथा गुणादौ तदनुपपत्तेः । तथा सति इदमिदं न भवतीति प्रत्यय: स्यात् न तु पृथगिति चेन्न, सत्यादिपदवदन्तर्भावितनञर्थ एव भावात्मनि पृथकशब्द सङ्केतादुपपत्तेः । मैवम् । अभावस्य प्रतियोगिसापेक्षनि-

म्यायलीलावतीकण्ठाभरणम्

तत्र दीर्घत्वं महत्त्वसमानाधिकरणं परमदीर्घत्वं परममहत्त्वसमानाधिकरणं परमहस्वत्वं परमाणुत्वसमानाधिकरणमित्याद्यूह्यम् ।

 पृथक्त्व इति । पृथक्त्वं तावदनुभवसिद्धं तस्य गुणत्वे किं प्रमाण मित्यर्थः । तथा सतीति । पृथक्त्वस्यान्योन्याभावत्वे सतीत्यर्थः । सत्यादिपदवदिति । यथा व्यधिकरणप्रकारानवच्छिन्नत्वं सत्यत्वं नञ्स्वान्तर्भावण तथा पृथक्त्वमपीत्यर्थः । दै (मै?) वमिति । घटः पटो न भव-

न्यायलीलावतप्रकाशः

आदिपदात्त्रिकोणमण्डलादिपरिग्रहः ।

 पृथक्त्व इति । एतस्मात्पृथगिदमिति प्रतीतेस्त्रयोविंशतिगुणाविषयाया गुणविषयत्वे किं मानमित्यर्थः । तस्येति । इदमस्मात्पृथगिति प्रत्ययस्य इदमिदं न भवतीति प्रत्ययान्यूनानतिरिक्तविषयत्वादन्योन्याभावेनैव तदुपपत्तिरित्यर्थः । अन्यथेति । तस्य गुणविषयकत्वे इत्यर्थः । तथा सतीति । अन्योन्याभावविषयत्वे विधिमुखः प्रत्ययो न स्यादित्यर्थः । सत्यादीति । विशेष्यावृत्यप्रकारकत्वज्ञाने यथा सत्यपदस्य शक्तिस्तथा पृथक्शब्दस्यापि अन्योन्याभावविशिष्टेऽभावे शक्तिर्न हि नञोऽप्रयोग इत्येव विधिरित्यर्थः । अभावस्येति । इदमस्मात्पृथ-

न्यायलीलावतीप्रकाशविवृतिः

म्बन्धेनावयविनिष्ठस्य दीर्घत्वव्यवहारहेतुत्वमन्यथा पारिमाण्डल्य त्वादेरपि जातिविशेषस्य स्वीकारापत्तेरित्याहुः । परिमाणम् ।

 सिद्ध (सिद्धि ?) व्याघातादाह -- एतस्मादिति । भावे धर्मिणीत्यर्थः ।


  1. खर्वस्वऋ० ।
  2. परिमाण क्या० ।