पृष्ठम्:न्यायलीलावती.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


र्षापकर्षाभ्यां तदनुमानादिति ब्रूमः । देशानां च भेदेनाप्रतिसन्धाने तदपेक्षाबुद्धिसाध्यस्य बहुत्वविशेषस्यैवानुपपत्तेः। द्वयणुकानुपलम्भो वा गुणविशेषविपर्ययाधीनः सालोकेन्द्रिय सन्नि-


न्यायलीलावतीकण्ठाभरणम्

यद्यपि अघटस्य घवयवस्य महत्त्वोत्कर्षेऽपि कुवलयस्य त्रुटेरूयवयवस्य कथं महत्त्वापकर्षः स्यात् तथापि स्वावयवपरम्परासमाहारघटितप्रचुरदेशत्वमिह विवक्षितम् । ननु तथापि प्रशिथिलावयवस्य तूलकपिण्डादेर्महत्त्वोत्कर्षः मृत्पिण्डादेर्महत्त्वानपकर्ष इत्यवयवसमाहाराधीनमपि महत्त्वं प्रति बहुत्वं व्यभिचार्येवेति चेत्, न, महत्त्वोत्कर्षविशेषस्य प्रचयाधीनस्य विवक्षितत्वात् । किं चावयवबहुत्वं संख्याविशेषः स च नास्त्येव किमनुमीयतामित्याह - देशानां चेति । ईश्वरापेक्षाबुद्धया तत्र बहुत्वमुत्पद्यत इत्यत्र न प्रमाणमिति भावः ।

 प्रत्यक्षसिद्धेऽपि महत्त्वे विप्रतिपन्नं प्रति अनुमानमाह - द्वयणुकेति । उद्भूतरूपस्य व्द्यणुकस्यानुपलम्भोऽसाक्षात्कारः पक्षः । गुणविशेषविपर्य्यायाधीन इति । गुणविशेषात्यन्ताभावव्याप्य इति साध्यम् । गन्धानुपलम्भे व्यभिचारवारणाय द्रव्येति । अन्धकारस्थघटानुपलम्भे व्यभिचारवारणाय सालोकेति । आत्मानुमानमपरकीयात्मानुपलम्भे

न्यायलीलावतीप्रकाशः

देशानां चेति । भेदेनेति । अवयवानां विविच्यानुपलम्भेनेत्यर्थः ।

 महत्त्वस्य प्रत्यक्षसिद्धत्वेऽपि विप्रतिपन्नं प्रति प्रयोगमाह-द्वघणुकेति । उद्भूतरूपवत्वेन पक्षो विशेष्यः । 'अधीनो' व्याप्यः । सालोकेति । अनुपम्भादिति गन्धानुपलम्भेन व्यभिचारीत्यत उक्तं द्रव्येति । द्रव्यानु- पलम्भत्वादिति श्रोत्रानुपलम्भेन व्यभिचारीत्यत उक्त चाक्षुषेति ।

न्यायलीलावतीप्रकाशविवृतिः

वक्षायामिदं दूषणमन्यथा तु प्रचयाख्यसंयोगवति निविडसंयोगवदपेक्षया समानद्रव्यवत्त्वेऽपि प्रत्यक्षोत्कर्षप्रदर्शनान्महत्तरव्यवहारदर्शनाच्च महत्त्वमतिरिक्तमेव मन्तुमुचितमिति दूषणमुपेक्षितं द्रष्टव्यम् ।

 अनुभूतरूपे सिद्धसाधनादाह - उद्भुतेति । अधीनत्वं जन्यत्वं न प्रागभावरूपेऽनुपलम्भे इत्यन्यथा व्याचष्टे-व्याप्य इति । श्रोत्रानुपलम्भेनेति । श्रोत्रेण यो द्रव्यानुपलम्भस्तेनेत्यर्थः । क्वचित् श्रोत्रेति (द्रव्येति ? ) पाठ-