च्छेदादौ च परिमितव्यवहारो निरूपित तदवच्छेदकोपाधिसंख्याविषयः । ननु महत्त्वमेव न सिद्ध्यति बहुतरद्रव्य समवायेन महदिति
प्रत्ययोपपत्ते : [१] । बहुतरद्रव्य समवायाभावनिबन्धन एव [२] द्वयणुकादेरनुलभ्मोऽपि । एवं (सति) गगनेऽपि महदिति प्रत्ययो न
स्यादिति चेत्, न स्यादन्यत्र महत्त्वासिद्धौ तत्र महस्वाननु -
न्यायलीलावतीकण्ठाभरणम्
दको गुरुत्वावच्छेदको य उपाधिः पलादिस्तस्य संख्या द्वित्वादिस्तु विषय इत्यर्थः । महत्त्यैकजातीयेति साध्यांशं दूषयति - नन्विति । अन्यथासिद्धिमाह - - बहुतरेति । आदिपदात् परमाणुपरिग्रहः । वहि
न्यायलीलावतीप्रकाशः
निरूपितेति । 'निरूपितो' निश्चितस्तदवच्छेदक: सुवर्णादिगुरुत्वावच्छेदक उपाधिः प्रस्तरादेर्द्विपलत्वादिरूपस्तद्गत द्वित्वादिसंख्याविषय इत्यर्थः । न चैवं घटादिपरिमाणेऽव्यवच्छेदकहस्तादिसंख्यानिबन्धन एव परिमितव्यवहारः स्यादिति वाच्यम्, हस्ताद्यवच्छेदं विनापि परिमितव्यवहारात् । नापि प्रस्तरादिगुरुत्वावच्छेदकं विनापि परिमितव्यवहार इति गुरुत्वपरिमाणयोरेका जाति: सिद्ध्येदिति वाच्यम्, परिमाणं यदि गुरुत्ववृत्तिगुणत्वसाक्षाद्याव्यजातिमत्स्यात्तदा गुरुत्वनिरूपितोत्कर्षापकर्षाश्रयः स्यादिति बाधकात् । बहुतरेति । महत्त्वकारणत्वेन तस्यावश्याभ्युपेय- त्वादिति भावः । एतञ्च वहिरिन्द्रियजद्रव्य साक्षात्कारप्रयोजकमुक्तं
न्यायलीलावतीप्रकाशाववृतिः
विशेषगुणत्वमपि नोपाधिरिति भावः । प्र ( परि?) माणं यदीति । साक्षात्पदं भेदलाभार्थम् । अन्यतराश्रयत्वं चापाद्यम् | गुरुत्वमेव दृष्टान्तः । यद्यपि भावनावृत्तिताहराजातिमानपि वेगो न भावनानिरूपितोत्कर्षाद्याश्रय इति ( त्य?) प्रयोजकमिदं तथापि तयोरेकजातीयतासाधकमानवन्नात्र साधकमानमस्ति परिमितव्यवहारस्याविचित्रस्योभयत्राभावादिति भावः । उक्तमिति । व्यणुकानुपलम्भोऽपीति [३] व्यतिरेकमु