प्रत्यक्षत्वे सति अकारणगुणपूर्वकत्वात् अयावद्रव्यभावित्वात्,
न्यायलीलावतीकण्ठाभरणम्
आकाशमाक्षिपेत् तत्रान्यथासिद्धिं निराचष्टे - प्रत्यक्षत्वे सतीति । परमाणुगुणेषु व्यभिचारवारणाय प्रत्यक्षत्वे सतीति । स्वसमवायिकारणमात्रासमवेतगुणासमवायिकारणकत्वमकारणगुणपूर्वकत्वम् । वस्तुतः कारणगुणपूर्वकत्वेन ये परिभाषिता रूपरसादयोऽपाकजास्तदन्यत्वादिति हेत्वर्थः । अयावदिति । समानाधिकरणध्वंसप्रति-
न्यायलीलावतीप्रकाशः
साध्याव्यापकत्वात् । प्रत्यक्षत्वे सतीति । नन्वत्र यत्किञ्चित्कारणगुणपूर्वकत्वाभावो विवक्षितः शब्दकारणगुणपूर्वकत्वाभावो वा । उभयथाSप्यसिद्धिः । बाह्येन्द्रियाप्रत्यक्षत्वं चोपाधिः । मैवम् । स्वाश्रय [१] सम वेतगुणासमवायिकारणकत्वादिति विवक्षितत्वात् । उपाधेश्च साध्यव्याप्यसाधनाव्यापकत्वेन साध्याव्यापकत्वात् । अयावदिति ।
न्यायलीलावतीप्रकाशविवृतिः
रेके निरवयवद्रव्यत्वमेव स्यात्तत्र चायं प्रतिकूलतर्कपराघात इति भावः । उभयथापीति । शब्दस्य स्वकारणभेरीसंयोगादिपूर्वकत्वादिति भावः । बाह्येति । विशेषगुणवत्वलक्षण पक्षधर्मावच्छिन्नसाध्यव्यापकोऽयमुषाधिरन्यथा घटैकत्वादौ साध्याव्यापकतापत्तेः । स्वाश्रयमात्रासमवेतेति । ननु यथाश्रुते शब्द ( ज ? ) शब्दे भागासिद्धि, घटरूपादौ व्यभिचार (श्च ?) । अत्र मिश्राः । स्वजनकाश्रयसमवेतगुणसमवायिकारणकान्यत्वादिति हेत्वर्थः । प्रतियोगिप्रसिद्धिश्चान्यत्रैव । न चैवं मात्रपदवैयर्थ्य स्वसमानाधिकरणद्रव्यविभाजकोपाधिव्याप्यतावच्छेदकगुणत्वव्याप्यजातिमत्त्वमेव विशेषगुणत्वम् । प्रकृते साध्यप्रतियोगिकोटित्वेन विवक्षितमतः पृथिवी संयोगमात्रवृत्तिकठिनसंयोगत्वस्वीकारे कठिनसंयोगे व्यभिचारवारकत्वात् । मात्रपदेन कार्त्स्न्यार्थकेन गुणत्वव्याप्यजात्यवच्छिन्ने तादृशगुणासमवायिकारणकान्यत्वस्य लाभात् । न च संयोगे तथात्वं कारणाकारणसंयोगेनापि तज्जननात् । अत एव परमाणुगुणे व्यभिचारवारणाय नात्र प्रत्यक्षत्वे सतीति योज्यम्, मात्रपदान्तर्भावेन विवक्षित हे तोस्तद्विशेषणं
- ↑ ० यमात्रासम० ।