दिति मूकीभव । (इति) पृथिवी ।
शुक्लमेव रूपमपामिति न सङ्गच्छते, नीलिमादेरप्युपलम्भात् । औपाधिकं तच्चन्द्रमसीव शैत्यमिति चेन्न, बाधकाभावात् । अन्यथा धर्मधर्मिव्यवहारविरहापत्तेः । वियति विक्षिप्तानामेव कालिन्दीजलानां धवलिमप्रतीतिर्वाधिका इति चेन्न, तत्रापि तेजस एव धवलिम्न उपाधिभावसम्भवात् ।
न्यायलीलावतीकण्ठाभरणम्
भाष्यकारीयोदेशक्रमानुरोधेन पृथिवीं निरूप्य जलं निरूपयतिशुक्रमेवेति । अभास्वरशुक्लमात्ररूपसमानाधिकरणद्रव्यत्वसाक्षाव्द्यायजातिमत्त्वमपतिरभेदसाधकमित्यर्थः । नीलिमादेरिति । कालिन्दीजलादाविति शेषः । औपाधिकमिति । पार्थिवौपाधिकमित्यर्थः । श्वैत्यं वास्तवं नैल्यमौपाधिकमिति न विनिगमकमित्याह - बाधकाभावादिति । नियामकमन्तरेणापि तदौपाधिकत्वं वाच्यं तत्राह - अन्यथेति । भूमिष्ठमेव जलं नीलमनुभूयते न त्वाकाशस्थमपीत्युपाधिरेव स्फुट इत्याह -- नियतीति । वियन्निष्ठजलश्वैत्यमेवौपाधिकं स्यात् तत्रापि तेजस उपाधेः सम्भवादित्याह--नेति । यद्यपि अन्यगततया भासमानधर्म्माश्रय उपाधिर्जवाकुसुमादिस्तथाप्यत्र धर्म्म एवोपाधिरुक्तः ।
न्यायलीलावतीप्रकाशः
नीलिमादेरिति । कालिन्दीजलादाविति शेषः । औपाधिकमिति । संसृष्टपृथिवीश्यामत्वौपाधिकमित्यर्थः । चन्द्रमसीवेति । यद्यपि [१]चन्द्रकराणामनुद्भूतस्पर्शतया शैत्यं नानुभूयते तथाप्यागमाच्चन्द्रमण्डले शैत्यं प्रतीयत इति भावः । तेजस इति । यद्यपि यद्धर्मोऽन्य-
न्यायलीलावतीप्रकाशविवृतिः
स्यैवोपलम्भादाह — कालिन्दीति । संसृष्टेति । मूलानुसारितया श्यामतोपाधिरुक्ता वस्तुतो पृथिव्येवोपाधिरिति ध्येयम् । एकत्र कारणाभि
- ↑ असन्निकृष्टे चन्द्रमसि शैत्यप्रत्यक्षासम्भवेनापि प्रभाणां शैत्येन शैत्यमनुमातव्यम्, प्रभावतः प्रभासजातीयस्पर्शवत्वात् । चन्दमः पदं वा चन्द्रप्रभापरं वाच्यम् । क्वचिच्च मूले चन्द्रमंहसीत्येव पाठः । तत्राह-यद्यपीति । इति दीधितिः । नयनेन प्रकारान्तरेण वोपस्थिते किरणे त्वचा शैत्यारोपो वायाविवेत्यपि वदन्ति ।