पृष्ठम्:न्यायलीलावती.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
न्यायलीलावती


गतोऽत्र समारोग्य निषिध्यते भूतले चैत्रवत् । ततश्च पलक्ष-


न्यायलीलावतीकण्ठाभरणम्

 ननु भावव्यक्तिषु प्रसक्तिरेव नास्ति कुतो निषेध इत्यत आह ---समारोप्येति । आरोपरूपैव प्रसक्तिरित्यर्थः । भूतल इति । यथागृहवर्त्तिनक्ष्चैत्रस्य भूतले प्राङ्गनादौ समारोपपूर्वको निषेधप्रत्यय इत्यर्थः । शुक्तौ रजतत्वमारोप्य नेदं रजतमिति बाधावतारादनेन दृष्टान्तेन सर्व्वाभावप्रत्ययानामारोपपूर्वकत्वसुन्नेयमिति भावः । ननु कीदृशेन एवकारसमभिव्याहारेणायमर्थो लभ्यत इत्यत आह - ततश्चेति । षड्-

न्यायलीलावतीप्रकाशः

भावादेव तादृशबुधुपपत्तौ तदनभ्युपगमात् । अथ गुणादिषट्पदार्थमिन्ने द्रव्यत्वायोगो नास्ति कर्मादिभिन्ने गुणत्वायांगो नास्तीत्ययोगव्यवच्छेदार्थः गुणादिषट्कभिन्ने द्रव्यभेदो नास्तीत्यन्ययोगव्यचच्छेदार्थः । तन्न गुणादिषटकपदार्थभिन्नत्वेन यदि द्रव्यमेव विवक्षितं तदा सिद्धसाधनम्, अन्यस्य चाप्रसिद्धिरित्यधिकरणविकल्पग्रासात् गुणाद्यभावपञ्चकसाहित्यं द्रव्यादन्यत्र नास्ति तस्य द्रव्य एव प्रसिद्धेः । यद्वा गुणाद्यभावपञ्जकं द्रव्यत्वव्याप्यमित्यपि न, तत्रापि हि द्रव्यादन्यद्यदि गुणाद्येव विवक्षितं तदा सिद्धसाधनं अन्यच्चेत्तदा सिद्ध्यसिद्धिव्याघातः । अत्राहु: । भाववृत्त्यत्यन्ताभावप्रतियोगित्वं न षङ्लक्षणावच्छिन्नम्, यद्वा भाववृत्तिगुणाद्यभावपञ्चकसाहित्यं न द्रव्यत्वाभावस्य, द्रव्यत्वं वा भाववृत्त्यभावपञ्चकव्यापकम्, भाववत्वं वा षड्लक्षणाभावव्याप्यमित्यवधारणार्थः । समारोप्येति । न चा-

न्यायलीलावतीप्रकाशविवृतिः

मूलोक्तायोगान्ययोगव्यवच्छेदौ संसर्गाभावान्योन्याभावरूपव्यवच्छेद्यभेदेन कथंचिदुपपादयति — अथेति । अभावमादाय षट्त्वं वोध्यम् । गुणाद्यभावेति । गुणाद्यन्योन्याभावेत्यर्थ: [१] । अन्यथा समवाये तदत्यन्ताभावपञ्चकसत्वाद्वाघापत्तेरित्यवधेयम् । अन्यत्रेत्यभाव इति शेषः । यद्वेति भावत्वसामानाधिकरण्याच्छिन्नं गुणाद्यन्योन्योभाव. पञ्चकमित्यर्थः । द्रव्यत्वव्याप्यत्वं द्रव्यान्यावृत्तित्वमित्यग्रिमदोषोऽत्रपि लगतीति ध्येयम् । भाववृत्तीति । धर्मिपक्षतायां पक्षविकल्पभयेनानु-


  1. गुणादिपदं वा गुणत्वादिपरम् ।