पृष्ठम्:न्यायमकरन्दः.djvu/८६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


न्यायमकरन्दे मू०-मलादिदोषदृषेितलोचनालोचितमर्थान्तरं रजतात्मना वभासत इति, नच नेदं रजतमितिवाधावबोधवशादस चैतैवात्यन्तिकी रजतस्येति साम्प्रतं, स खलु सन्निहितेदंका रास्पदतादात्म्यनिषेधादसन्निहिततामेवास्यार्थादापादयति न पुनरात्यन्तिकीमसत्तां, यद्धि यथा प्रतिभासते तत्त थैवेत्यौत्सर्गिको न्यायः, अन्यथाभावस्त्वस्य बलवद्वा धकापान्नपातवशादाश्रयणायः. स चेदिदैकारास्पदतादात्म्यनिषेधात्मोपपन्नः कुतः पुनरस्य प्रसक्तप्रतिषेधे परिशेषतः प्रसिद्धा प्रदेशान्तर टी०-त्मना प्रतिभासे निमित्तमाह-*कामल'इति । वाधकस्य ता दात्म्यमात्रविषयतयोपपन्नत्वेन न रजतवाधकत्वमिति हेतुमाह

  • सखलु इति । वाधकस्य परिशेषन्यायेन तादात्म्यमात्रविष

यत्वं दर्शियितुं सामान्यन्यायमाह-* यद्धि ?' इति । तेन तर्हि सत्वमेव किन्न स्यादिति तत्राह-* अन्यथा इति । वाधकाद् सत्त्वमेव तर्हि किन्न स्यादिति तत्राह-* सचेद् ?” इति । वामेन न पश्यतीत्यादौ विशेषप्रतिषेधस्य शेषाभ्यनुज्ञापूर्वक त्वाद्, अत्र च यद् रजतं तदिदं न भवतीति निषेधस्य विशेषविषय त्वादू, रजतमात्रनिषेधे न रजतमिति वाधप्रसङ्गादू, धर्ममात्रवाधेन वाधकस्योपपत्तेर्धर्मिवाधविषयत्वे कल्पनागौरवप्रसङ्गात्तादात्म्य मात्रविषयत्वमित्यर्थ ननु वाधकस्य तादात्म्यमात्रनिषेधेनोपपत्तौ परिशेषात्प्रदेशा न्तरे सत्वं चेत्तर्हि तस्य चक्षुःसन्निकर्षाभावादापरोक्ष्यं न स्यादि