पृष्ठम्:न्यायमकरन्दः.djvu/६१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अख्यातिवादोत्थापनम् । मू०-अथ कोयं विभूमो नाम, केचिदाहुः-विवेकाग्रह मात्रं विज्ञानानां तज्ज्ञेयानां च विभूमः, तद्यथा-इदमि ति नयनघटितशुक्तिकाशकलसाधारणाकारावग्रहे, नेत्र दी०-ख्यातिचतुष्टयनिराकरणेन विभ्रमाणामनाद्यविद्याविरचि तत्वं सिसाधयिषुः प्रश्नपूर्वे प्रथममख्यातिवादमुत्थापयति-“ अ थ कोयम्' इति ॥ सर्वप्रत्ययानां यथार्थत्वेन पूर्वानुमानदृष्टान्तस्य साध्यविकलत्व शङ्कां वा वारयितुमख्यातिवादमुत्थापयति -* अथकोयम् ' इति । विवेकाग्रहमात्रम-मात्र-शब्देनान्यथाख्यातिं वारयति, विवेका ग्रहमात्रं विभ्रम इत्युक्ते सुषुप्तावपि प्रसङ्गस्तान्निवृत्त्यर्थमाह

  • ज्ञानानाम्' इति, नचैवमपि सुषुप्तौ प्रसङ्गो ज्ञानाभावेपि

झानज्ञेयविवेकाग्रहस्य सम्भवादिति वाच्य ज्ञानेन सतीति विशेषणस्य विवक्षितत्वादू, अत्र चानेकज्ञानमात्रं विवक्षितं न बहुल्वम्, अन्य येदं रजतमिति ज्ञानद्वयविवेकाख्यातावव्याप्तः, एवं च सति स्वरू पतो विषयतश्चागृहीतविवेकानेकज्ञानत्वमख्यातिरित्युक्तं भवति । प्रकविषयानेकज्ञानेष्वतिव्याप्तिपरिहारार्थ स्वरूपपदं, समूहालम्बन ज्ञानेनऽतिव्याप्तिपरिहारार्थ विषय इति विशेषणम् । नन्विदं रजतमितीदमंशरजतांशविषयविशिष्टज्ञानमेकमेव तत्कथं विज्ञानभेद इत्याशङ्क्य सामग्रीभेदेन तद्भेदं साधयति “तद्यथा' इति, ननु तुल्यसामग्रीकतया साधाराणाकारवदू विशेषाकारोपि किमिति न प्रथत इत्यन आह -*नेत्रदोषविशेषाच्च ?’ इति :।

एव च सुषुप्रैौ स्वारसिकविवेकाग्रहसत्त्वेपि ज्ञेयज्ञानपुरस्सरविवेकाग्रहाभावान्ना