सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-म्भेन प्रतिभूतं प्रतिभासमानपुरुषभेदापा करणपरतेोपलम्भाद, ‘एक एव देवः सर्वभूतान्तरात्मा ' इति च प्रतिभूतं पुरुषभेदापाकरणपरत्वस्य स्पष्टत्वात, परमात्मनानात्वापाकरणमरतायां चाप्रसक्तप्रतिषेधप्रस ङ्गात, सत्यां च गतैौ तस्याऽयोगाद्, नच परमात्मा क्षेत्रज्ञभेदनिरासः । टी०–“एक एव इति –“तद्वृत्तमेवकारश्च स्यादुपादे यलक्षणम्’ इति न्यायाद् 'एकएव' इति च परमात्मन्येव काराद् 'यः सर्वज्ञः सर्वभूतान्तरात्मा' इति जीवभेदानुवादेन 'स एक एव' इति परमात्मतावन्मात्रत्वविधानाजीवभेदापाकरणं स्प ष्टमित्यर्थे । परमात्मभेदनिराकरणपरत्वे दूषणमाह - 'परमात्मे' ति, लोकतः श्रुतितः परीक्षकसंमल्या वा परमात्मभेदाप्रसक्तस्त न्निराकरणेऽप्रसक्तप्रतिषेध एव स्यादित्यर्थः । ‘नान्तरिक्षे न' दिवि' इत्यादावप्रसक्तप्रतिषेधोपि दृश्यत इति तत्राह “सत्यां च गतै' इति, अनधिगतार्थबोधकत्वे सैभवति नित्यानुवादकत्वमयुक्ताभि त्यर्थः । परमात्मनो भेदनिराकरणपरत्वेपि जीवभेदनिराकरणपरत्वं सिद्धयति जीवपरमात्मनोरभेदादित्याह *नच' इति, यद्वा प्रतिशरीरं जीवभेदनिराकरणे तेषामेवैकत्वं नतु परमात्मन इति शङ्क परिहरति - * नच ? इति, अधस्ताद्= अन्यत्वं नच धास्त वम्’ इत्यत्राचेदितमित्यर्थः । मा म्

  • तदूवृत्त = तच्छब्दनिष्पन्नरूप, उपाट्ध= तात्पर्यविषयीभूतत्वेन विधेयतया