पृष्ठम्:न्यायमकरन्दः.djvu/२७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


हारान्तरमाह क्षेत्रज्ञभेदनिरासः । मू०-यद्प्यादि-विवादपदानि शरीराणि स्वसंख्यास डङ्ख्येयात्मभिरात्मवन्ति शरीरत्वात सम्प्रतिपन्नशरीरवद् ’ इति । तदपि न विचक्षणपरीक्षाक्षममीक्षामहे, सिद्यसाधन त्वात, तथाहेि यान्येवशरीराण्येकत्वाधिकरणानि तान्येव परस्परापेक्षाणि परसङ्ख्याधिकरणभावं भजन्ते, तथा चामीषामेकत्वसङ्ख्यापि स्वकीया, तत्संख्येयाऽऽत्मवत्वं च परेषां सिद्धमिति कथं न सिद्धसाधनता, * अथ स्व समवेतसकलसङ्ख्यासङ्ख्येयात्मवत्ता साध्या तथापित्र मभाव्येकपुरुषाधिष्ठयाऽनेकशरीरैरनैकान्तः। अथ वर्तमा नशरीरत्वादिति हेतुः, तथापि वर्तमानमृतशरीरैरनेकान्तः । अथाधिष्ठानाधिष्ठेयभावस्या ऽसाध्यत्वाद् अशेषानैका न्तिकतापरिहाराय वा 'जीवच्छरीरत्वादू' इतिविशेष णाद्दोष इति । स्वसमवेतयत्किचित्संख्यासङ्ख्येयात्मत्वमात्र साध्यम् उत स्वसमवतसकलसङ्ख्यासङ्ख्येयात्मत्वमिति विकल्प्य क्रमेणैव दूषयति -“ तदपि ?' इति । शवशरीरैरनैकान्तिकतापरिहारमाशङ्कते- “अथाधिष्ठाने' िित । शवशरीरेपि स्वसमवतसङ्ख्यासङ्ख्येयात्मत्वमस्येव शवश रीराणां मूर्तत्वेनात्मसंयोगित्वाद्, भवतु वात्माधिष्ठितत्वं साध्यं तथापि नानकान्तिकता जीवच्छरीरत्वादिति हेतुस्वीकारादिति परि ८८ २३

  • कल्पितसमसडूख्यात्वमादायापि सिद्धसाधनता बोध्या ।