२० न्यायमकरन्दे मू•-कार्थसमवायिन्यां समीहितसाधनतायामेवदृष्टानुसा रतः परप्रवृत्तावपि कल्पितकारणभावायां सङ्गतिमधिग न्तुमुत्सहते, कुतस्तु प्रवर्तनामात्रे तदधिगतिः, । यतु वहुविधत्वात् प्रवृत्तिहेतूनामाज्ञादिविशेषाणां तेषां च परस्परव्यभिचारात्, प्रवृत्यभावविरोधस्य च स वैखानुवृत्तत्वात्तावन्मात्रे च वाच्ये सम्भवत्यनेकाभेधा नशक्तिकल्पनाया अयुक्तत्वात्, प्रवृत्यभावविरोधः श ब्दार्थ इति, तदप्यनेकप्रवर्तकाभावादेवायुक्तम्, । प्रैषादिविशोषो हि समीहितोपायभावानुरोधेनैव प्रवृ तिगोचरोऽननुविधेयप्रैषादिषु प्रवृत्यभावात् ,। तथा च समीहितसाधनताया एव सर्वत्र प्रवर्तिका टी०-खप्रवृत्तिसन्ततावनुगतः प्रवर्तकभावो यस्याः सा तथा, सङ्ग तिग्रहणं च भूयोदर्शनेन व्याप्तिसिद्ध्यर्थं, भवतु स्वप्रवृत्तावेवं तथपिं शब्दप्रवृत्तौ किमायातमित्यत आह-‘दृष्टानसारत’’ इति,। प्रवर्तनासामान्ये लिङादिसङ्गतिग्रहणसाधकहेतूननूद्य दूष यति-‘‘ यत्तु ” इति, । तदप्ययुक्तमित्यन्वयः, तत्रहेतु ‘‘ अनेक ’ इति । कथमनेकप्रवर्तृकाभावः प्रैषादीनां तद्धेतु त्वादित्यत आह प्रैषादि ॐ इति । उक्तप्रयोजकपुरस्कारे वैव तेषां हेतुत्वमन्यथ व्यभिचारादितिभावः। ततः किमित्यत आह-‘ तथा च ” इति, । G ७
पृष्ठम्:न्यायमकरन्दः.djvu/२४४
दिखावट