पृष्ठम्:न्यायमकरन्दः.djvu/२३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


क्षेत्रज्ञभेदनिरासः । मू०-प्रसाध्यत इति किं केन सङ्गतम्, अपक्षधर्मत्वाद् हेतोः, तत्सिद्धं न व्यवस्थानुपपत्तिर्भद्साधिकेति ॥ यद्यप्यभाणि ( आत्मा द्रव्यत्वव्यतिरिक्तापरजा त्याधारभेदेन नानाऽश्रावणविशेषगुणाधिकरणत्वाद् य दुक्तसाधनं तदुक्तसाध्यं यथा घटादि) इति, तदप्य चारु, हेतोरसिद्धत्वाद्, न खल्वात्मैकत्ववादिनो विशे षगुणाधिकरणतामात्मनोऽङ्गीकुर्वते येनायं हेतुः सिध्येत, नच वेद्यानां वेदनादीनां वेदितृगुणभावो युक्तः रू टी०-न केवलं प्रतिवादिनामनभ्युपगमादसिद्धिः,विपरीतप्रमाः णसद्भावाश्चेत्याह- “ नचवेद्यानाम् ?” इति । यद्धा ‘आकाशं विशेषगुणाधिकरणविश्वन्यद् मेयत्वादू घटवद्' इत्यात्मनो विशेष गुणवत्त्वप्रसाधकमनुमानं सत्प्रातिपक्षतया दूषयति - ' नच वे चानाम् ” इति, " अस्थूलमनणु इति निर्धर्मकत्वप्रतिपा द्कश्रुतिाविरोधेनानुमानस्य कालात्ययापदिष्टत्वाद् । आकाशं श्रोत्रेन्द्रियग्राह्यविशेषगुणाधिकरणविश्वन्यन्मेयत्वाद् घटवदू इत्याभाससमानयोगक्षेमत्वाञ्चानुत्थानमेव यद्यपि तथापि प्रौढ्या सत्प्रतिपक्षत्वमुक्तवान् । ज्ञानादयो न वेदितृधर्मा वेद्यत्वाडू रूपवद्, इति प्रयोगः, नच वेदितूधर्माणामप्रसिद्धया तत्प्रतियोगिकनिषेधासिद्धावप्रसिद्धविशेष णता मायावादिनः,परप्रसिद्धिमात्रेणापि तदुपपत्तः, अवेदितृधर्मा इति साध्यनिर्देशेन वाऽप्रसिद्धविशेषणता परिहरणीया, नच विवादा

  • जन्म चात्रापूर्वदेहेन्द्रियाद्याभेिसबन्ध , मरण चोपात्तदहास्त्यिाग, इत्याश्रयणे

तु सङ्गतमेव ।