पृष्ठम्:न्यायमकरन्दः.djvu/२०५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मू०-त्युत्तरकालं प्रवृत्तिसंदर्शनात् प्राक्चादर्शनाद्, अ न्वयव्यतिरेकसिद्धा रागस्यापि प्रवर्तकता, तन्मात्रस्य प्र वर्तकता चेत् फलादौ व्यभिचरति, मा भूत्, फलसाधन तावछिन्नस्य प्रवर्तकतायां न किञ्चिद्वद्यम्पश्याम इति । सत्यं, न वयमपि रागस्य प्रवर्तकतां पराकुर्मः किं पुन रवश्याश्रयणीया श्रेयःसाधनतायाः प्रवर्तकतेत्येतावदु पपादयामः, तत्र भवानपि चेच्छद्धरागस्य प्रवर्तकताम पहाय समीहितसाधनताया अपि रागावच्छेदेन प्रवर्त ककोटिनिवेशमङ्गीकुरुते नैवास्ति विवादः, तस्मात् कृतिसाध्यतैकार्थसमवायिनी श्रेयःसाधनता टी०-वृत्तिहेतुता फलेब्यभिचरतीत्युक्तमिति तत्राह-**तन्मात्रस्य9 इति, । ननु रागस्य प्रवृतिहेतुतास्तीति उच्यते किं वा हितसाधनस्य सानास्तीति, आद्योऽङ्गी क्रियत इत्याह--'स-त्यम्” इति, । द्विती यस्त्वनुपपन्न इत्याह-“किं पुनर्” इति, । ननु रागस्य प्रवर्त्तकत्वे चकथं भवदभिमतसिद्धिरिष्टसाधनज्ञानस्य रागजनननान्यथासिद्धेरुक्त क्तत्वादित्यत आह-“तत्रभवान्' इति, । भवतापि फलरागे व्यभिचारपरिहारायाभिमतसाधनावछेदेन रागस्य प्रवक्तैकता वच नीया, तथा च प्रवर्तकविशेषणतयेष्टसाधनस्यापि प्रवृत्तिहेतुत्वसिद्धिः, न च कारणकारणतयान्यथास्सिद्धि, हेतुत्वसिद्धौ स्वाङ्गं स्वस्याव्यव धायकमिति न्यायेन व्यवधानस्य तदविधातकत्वादू, यागस्य स्वर्गजन् नेऽपूर्ववदभिलाषस्याऽवान्तरव्यापारतया उपपत्तेरिति भावः, । समीहयैवभूतादेव्यवृत्तिसिद्धौ कृतिसाध्यत्वविशेषणमनुपयो