पृष्ठम्:न्यायमकरन्दः.djvu/१८६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१८२ मू०-शङखादिध्वनेरपि समयवशाद्नुविधेयपुरुषाभिप्रा यविशेषरूपार्थावोधादेव प्रवर्तन्ते, समयसंवेदनशून्या नां तदवसायेपि प्रवृत्त्यदर्शनात्, । किंच लिङ्ङादिशब्दानां प्रवर्तकत्वे सर्वएवश्राविणो नियमेन प्रवर्तेरन् नचैवं दृश्यते, सम्बन्धग्रहणापेक्षाया स्तु दत्त एवजलाञ्जाल') तस्माच्छब्दरूपमात्रमव प्रव तैकमिति स्वसाहसप्रकटनमात्रं, । तद्व्यापारस्य चानभिधेयस्य प्रवर्तकतायां समानैव न्यायमकरन्द सबन्धग्रहणानपक्षाः । टी०-ननु शब्दमात्रादपि कचित्प्रवृत्तिर्दष्टति तत्राह -“शङ्खादि’ इति, । शङ्गादिध्वनिरापि अभिप्रायविशेषानुमापकतया प्रवृतिहेतुनैः स्वरूपेण,संख्यानुमापकोध्वकृततर्जनीवदित्यर्थः, कस्मादित्यत आा ह–“ समय ?” इति,। पक्षद्वयसाधारणं दूषणमभिधाय शब्दे विशेषतो दूषणमाह

  • किञ्च ' इति, । सम्बन्धग्रहणसापेक्ष. शब्दः प्रवर्त्तको न

खरूपेणातो नाति प्रसङ्ग इत्यत आह-“ सम्बन्ध ” इति, । अ थैवोधजनने शब्दस्य सङ्गत्यपेक्षा तस्यानङ्गीकरणे कुत. सम्बन्ध झानापेक्षेत्यर्थः, । उक्तं दूषणं शब्दब्यापारेप्यति दिशति -“तळद्यापारस्य ” इति, । शब्दव्यापारः शब्दाभिधेयतया प्रवर्त्तक इति पक्ष निराकरा