सिद्धे सङ्गतिग्रहसत्त्वस्थापनोत्थापनम् । १५९ ८८ मू०-ङ्गेन हर्वोत्पादानुमानं, तेन च तद्धेत्वव गामः३शब्दस्य , तत्कारणताध्यवसायश्च सम्भवी, त थापि पुत्रस्ते जात इति वचनस्य पुत्रजन्माख्यह र्षहेतुबोधकता दुरधिगमा,नो खलु पारिशेष्येण त डोधकताधिगमेो, भूतभविष्यद्वर्तमानानां सन्निहितव्य वहितानां च हर्षहेतूनां संभवात्परिशेषावधारणानुपपत्तेः व्यवहारः पुनः प्रत्यक्षतो विषयविशेषगोचरतयोपलभ्य मानो नाव्यवस्थामवलम्वत इति व्यवहार एव व्युत्प तावादिमार्गः, तस्य च कार्यावगमं विनानुपत्तेः कार्य परतैव तद्वदशात्सर्वशब्दानामाश्रयणीया, तथाच यः क श्धन सिद्धार्थपरतया पदप्रयोगो लोके स सर्वोपि ला क्षणिको भविष्यति, कार्यान्वयो हि परस्परान्वयाव्य टी०-ननु पारिशेष्येण तद्बोधकतानिश्चय इत्यत आह-“नोखलु” इति, । व्यवहारोपि तर्हि पारिशेष्यावधारणं न स्यादित्यत आह-- व्यवहार इति, । भवतु व्युत्पत्तावादिमार्गस्तथापि काय्यैपरत्वं कथमित्यत आह
- तस्य ?' इति, । ननु काय्यैवतू सिद्धेपि प्रयोगो दृश्यते तत्कथं
तत्र प्रतिपत्त्यभावस्तत्राह -“ तथाच' ' इति, ॥ लाक्षणिकः=का य्र्यलक्षणापर इति यावद्, । संबन्धाभावे कथं लक्षणेत्यत आह- * काय्र्यान्वयोि ”