पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


 अवगत्यात्मनो यस्मादागमापायि कुम्भवत् ।
 साहङ्कारमिदं विश्वं तस्मात्तत्स्यात्कचादिवात् ॥ ९५ ॥
सर्वसैयैवानुमानव्यापारस्य फलमियदेव यविवेकग्रहणम्।
तदुच्यते ।
 बुद्धेरनामधर्मवमनुमानात्प्रसिद्धयति
 आत्मनोऽप्यद्वितीयावमात्मावादेव सिद्धयति ॥ ९६ ॥
यद्यप्ययं ग्रहीतृग्रहणग्राह्यगृहीति तत्फलात्मक आब्रह्मस्तम्बपर्यन्तः संसारोऽन्वयव्यतिरेकाभ्यामनात्मतया निमर्माल्यवदपविद्वस्तथापि तु नैवासौ स्वतःसिङ्कात्मव्यति-


॥ शङ्काव्यावृत्यर्थमाह अवगत्यात्मन इति । अवगत्यात्मनः सकाशात्साहङ्कारमिदं विश्वं कुम्भवदागमापायि उत्पत्तिविनाशवघदत एव कुम्भवअन्नात्मस्वरूपं ततः केशोण्ड्रकादिवडाध्यमित्यर्थः । यद्वा । यस्मादात्मनः सकाशात्साहङ्कारमिदं विश्वं कुम्भवदागमापायितया सिध्यति तद्धिश्चं ततः केशोण्डूकादिवत्स्वरूपं न भवतीत्यर्थः ॥ ९५ ॥

 ननु तह्यत्मनोऽन्वयव्यतिरेकलक्षणानुमानव्यापाराधीनसिद्धिकत्वादात्मनः स्वप्रकाशत्वाभ्युपगमो भज्येतेत्यत आह सर्वस्यैवेति । सर्वस्यैवानुमानव्यापारस्य बुच्द्यादिप्रपञ्चविवेचकत्वमेव फलं नात्मस्वरूपबोधकत्वम् । ततो न स्वप्रकाशत्वभङ्ग इत्यर्थः । तह्यात्मनोऽद्वितीयत्वगोचरात्प्रमाणात्स्वप्रकाशत्वभङ्ग इत्याशङ्कयाह आत्मनोऽप्यद्वितीयत्वमिति । द्वितीयाभाव एव तत्र प्रमाणगोचरः । अद्वितीयत्वं तु स्वरूपमेव तदामत्वादात्मस्वभावबलात्स्वत एव सिध्यति स्वरूपस्य स्वप्रकाशत्वादित्यर्थः ॥ ९६ ॥

 सांख्यसिद्धान्तसाम्यमाशङ्कय ततो वैषम्यं दर्शयति यद्यपीत्यादिना । गृह्यतेऽनेनेति ग्रहणं प्रमाणं गृहीतिरर्थज्ञानम् । तत्फलमर्थाविच्छिन्न स्फुरणम् । तथाभूतस्य संसारस्यात्मासंस्पाशित्वमात्मनोऽसंसारित्वम् ।