सावशेषपरिच्छेदिन्यत एव न कृत्स्त्रवित् ।
नोचेत्परिणमेद्वद्धिः सर्वज्ञा सामवङ्गवेत् ॥ ७ ॥
अतोऽवगतेरेकत्वात् ।
चण्डालबुद्धेर्यद्रष्ट तदेव ब्रह्म बुञ्चिद्दक्
एकै तदुभयोज्योतिर्भास्यभेदादनेकवत् ॥ ७ ॥
कस्मात् ।
अवस्यादेशकालादिभेदो नास्त्यनयोर्यतः ।
तस्माज्जगड़ियां वृत्तं ज्योतिरेकं सदेझते ॥ ९ ॥
सर्वदेहेष्वामैकावे प्रतिबुद्यपरमार्थतत्त्वस्याप्यप्रतिबुधदेहसम्बन्धादशेषदुःखसम्बन्ध इति चेतन्न ।
बोधात्प्रागपि दुःखिावं नान्यदेहोत्यमस्ति नः ।
बोधादूध्वं कुतस्तत्स्याद्यत्र स्वगतमप्यसत् ॥ ९० ॥
सम्बद्धार्थ इति । बुद्धिः परिणामिनीति यतोऽत एव कतिपयपरिच्छेदिनी भूत्वा न कृत्स्रविद्भवति । यदि न परिणमेत्तदा सर्वशा स्यात्ततः परिणामिनी बुद्धिरित्यर्थः ॥ ८७ ॥
अवगतेरेकत्वमस्तु ततः किमित्यत आह अतोऽवगतेरिति । आत्मैक्यं पूर्वमुपपादितं सिध्यतीत्यर्थः । अनेकत्वप्रतीतेरन्यथासिद्धिमाह भास्येति ॥ ८८ ॥
भेदस्य वास्तवत्वं कस्मान्न स्यादित्याशङ्कय भेदकाभावादिति परिहरति कस्मादित्यादिना । आदिशब्देन भेदका गुणादयो गृह्यन्ते तेषामवस्थादीनां साक्ष्यत्वान्न साक्षिभेदकत्वमित्यर्थः ।। ८९ ॥
ननु यद्देहस्थे मनसि यस्य ब्रह्मत्वं भाति ततो देहान्तरस्थे मनसि तद्भावात्तद्भतदुःखादिसम्बन्धादुःखी स्यादिति शङ्कते सर्वदेहेष्विति । समस्तकल्पनाबीजभूताशानोत्थितेऽप्यन्यगतत्वेन कल्पनान्न तदुःखेन दुःखित्वं