पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
left७४
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


तस्माद्विस्रब्धम्पगम्यताम् ।
 द्रष्टत्वं दृश्यता चैव नैकस्मिन्नेवकदा काचित् ।
 दृश्यदृश्यो न च द्रष्टा द्रष्टदर्शीं दृशिर्न च ॥ ३९ ॥
सर्वसंव्यवहारलोपश्रव प्राऽोति । यस्मात् ।
 द्रष्टापि यदि दृश्याया आत्मेयात्कर्मतां धियः ।
 यौगपद्यमदृश्यावं वैयथ्र्य चामुयाच्छूतिः ॥ ४० ॥
कुतः । यस्मात् ।
 नालुझदृष्टर्डश्यावं दृश्यावे द्रष्टता कुतः ।
 स्याचेदृगेकं निर्डश्यं जगद्वा स्यादसाक्षिकम् ॥ ४१ ॥


 उक्तयुक्तिबलाद्रष्टत्वदृश्यत्वे व्यवस्थिताधिकरणे एवेत्युपसंहरति तस्मादिति । एवं च सत्येतदपि सिद्धमित्याह दृश्यदृश्य इति । स्वद्दश्येन विज्ञानेन स्वयमात्मा दृश्यो न भवति दृशिश्च विज्ञानं स्वद्रष्टारमात्मानं न विषयीकरोतीति चैतद्वयं सिद्धं भवतीत्यर्थः । यद्वा । तस्य दृश्यत्वासम्भवादिति हेतुमाह दृश्यदृश्य इति । द्रष्टुर्हि दृश्यत्वं वदता स्वेन दृश्येन दर्शनेन वा वक्तव्यमन्यस्याभावात् । तत्र न तावत्स्वेन दृइयत्वं सम्भवति स्वात्मनि क्रियाविरोधान्नापि दृश्येन दृश्यत्वं सम्भवति जडस्य चेतनविषयीकरणायोगात् । नापि दृशिना विज्ञानेन दृश्यत्वं सम्भवति तस्य विषयगोचरस्य विषयिगोचरत्वायोगात्ततश्च न द्रष्टुर्दश्यंत्वमित्यर्थः ॥ ३९ ॥

 द्रष्टुर्दश्यत्वे दृशेश्च द्रष्टदशित्वे दोषमाह सर्वसंव्यवहारेति । यदि द्रष्टात्मा स्वदृश्याया धियः कर्मतामियात्तदा द्रष्टापि दृश्यत इति स्यात् । तथा च बुद्धयात्मनोरुभयोरापि युगपदेकैकस्यैव द्रष्टत्वं दृश्यत्वं च स्यात्तथा च सति द्रष्टत्वादेवोभयोरदृश्यत्वं दृश्यदृश्यत्वे चात्मनः कूटस्थद्रष्टात्मविषयायाः श्रुतेर्वेयथ्र्य स्यादित्यर्थः ॥ ४० ॥ :

 वैयथ्र्यमेवोपपादयितुमाह कुत इति । लुप्तदृष्टेर्घटादेरेव दृश्यत्वनि-