आत्मधर्मवाभ्युपगमेऽपरिहार्यदोषप्रसक्तिश्च ।
यद्यामधमोंऽहङ्कारो नित्यत्वं तस्य बोधवात् ।
नित्यावे मोक्षशास्राणां वैयर्थ प्रामुयाडूवम् ॥ ३३ ॥
स्यात्परिहारः स्वाभाविकधर्मत्वाभ्युपगमेऽप्याम्रादिफलवदिति चेतन्न ।
आम्रादेः परिणामिावाहुणहानिर्गुणान्तरैः ।
अविकारि तु तद्रह्म “न हि द्रष्टुरि”ति श्रुतेः ॥ ३४ ॥
अहङ्कारस्य चागमापायिावातङ्कर्मिणश्रानित्यत्वं प्राशोति
आगमापायिनिष्ठत्वादनित्यत्वमियादृशिः ।
उपयन्नपयन्धमों विकरोति हि धर्मिणम् ॥ ३५ ॥
न्वयाञ्चेति । अहङ्कारो नात्मधर्मः । अयावदात्मभावित्वाद्देहवदित्यर्थः ॥ ३२ ॥
इतश्चाहङ्कारस्यानात्मधर्मत्वमित्याह आत्मधर्मत्वेति । अस्तु तर्हि नि त्यत्वमपीत्यत आह नित्यत्व इति ॥ ३३ ॥
ननु यावद्रव्यभावित्वाभावेऽपि श्यामत्वादेर्धर्मत्वं दृश्यते तस्माद्हङ्कारस्यानित्यत्वेऽपि नित्यात्मधर्मत्वमुपपद्यत इति शङ्कते स्यादिति । परिहरति तन्नेति । आम्रादिद्रव्यस्य परिणामित्वेन गुणान्तरोद्यसम्भवात्तेन स्वाभाविकस्यापि गुणस्य नित्यनिवृत्तिः सम्भवति । ब्रह्मणस्तु कूटस्थत्वेन गुणान्तराभावात्तद्धर्मस्याहङ्कारस्य न निवृत्तिः सम्भवति । ततश्चात्मनो नित्यत्वात्तद्धर्मस्याहङ्कारस्यापि नित्यत्वमेवेति भावः ॥ ३४ ॥
पूर्वमहङ्कारस्यानित्यत्वान्नित्यात्मधर्मत्वमनुपपन्नमित्युक्तमिदानीमात्मनो नित्यत्वादनित्याहङ्कारधर्मित्वमयुक्तमित्याह अहङ्कारस्येति । आगमापायिनोऽहङ्कारस्य निष्टास्थितिर्यस्मिन्नसावागमापायिनिष्ठस्तस्य भावस्तत्वं तस्मादित्यर्थः ॥ ३५ ॥