ज्ञेयाभिन्नमिदं यस्माज्ज्ञेयवस्वनुसार्यतः । न प्रवृति निवृतिं वा कटाक्षेणापि वीक्षते ॥ ५४ ॥ कुत एतज्ज्ञेयाभिन्नमिति । यतः । प्रागात्मबोधाबोधोऽयं बाह्यवस्तूपसर्जनः । प्रध्वस्ताखिलसंसार आामेकालम्बनः श्रोतेः ॥ ५५ ॥ एवमवगतपरमार्थतत्वस्य न शेषशेषिभावस्तत्कारण स्योत्सारितवादित्याह । वास्तवेनव वृतेन निरुणद्धि यतो भवम् । निवृतिमपि मृद्भाति सम्यग्बोधः प्रवृतिवत् ॥ ५६ ॥
न्दं वर्त्तितव्यमिति पृच्छति एवमिति ।ज्ञानस्य ज्ञेयाद्वैतचैतन्याभिन्नतया तदनुसारित्वाज्ज्ञेयस्य च प्रवृत्तिनिवृत्तिश्शून्यस्वभावत्वात्तद्वपेण ब्रह्मविदोऽवस्थानं न तु प्रवृत्तिनिवृत्यादिसम्बन्ध इत्युत्तरमाह उच्यत इति ॥ ५४ ॥ ज्ञानस्य ज्ञेयाभिन्नत्वं कुत इत्याशङ्कय तदुत्तरत्वेन श्लोकमवतारयति कुत एतदित्यादिना । “यत्र चान्यदिव स्यात्तत्रान्योऽन्यत्पश्येद्यत्र त्वस्य सर्वमात्मेवाभूत्तत्केन कं पश्येदिति' श्रुतेरविद्यावस्थायां ज्ञानस्य भेदाचलम्बनत्वं विद्योदयेनाशेपसंसारनाशे त्वयात्मेक्कमात्रपर्यवसानमवसीयत इत्यथः ॥ ५५ ॥ ननु विदुषः प्रवृत्तिधर्माणामभावेऽप्यमानित्वादयो निवृत्तिधर्मा विश्रयन्तेऽतस्तद्विधिशेप एवायं विद्वानित्याशङ्कय तत्रापि वस्तुस्वभावात्प्रवर्त्तते न तु शास्रान्नियोज्यत्वकारणभूतार्थित्वहेत्वविद्यायास्तत्त्वज्ञानेन निवृत्तन्वादित्याह एवमिति । वास्तवेनैवेति । यतः सम्यग्बोधः प्रवृत्तिनिवृत्तिशन्यात्मवस्तुवृत्तानुरोधेन संसारं ि निवर्तयत्यतो वैधप्रवृत्तिवभावादेवामानित्वादी विडा