एवमम् ।
आगमापायिहेतुभ्यां धूत्वा सर्वाननात्मनः ।
ततस्तत्वमसीयेतद्धन्त्यस्मदि निजं तमः ॥ २२ ॥
इत्यादि पुनःपुनरुच्यते ग्रन्थलाघवाडुखिलाघवं प्रयोजकमिति । तत्र यद्यपि तत्त्वमस्यादिवाक्यादुपादिसिताद्वितीयात्मार्थवत्यारोक्ष्यसद्वितीयार्थः प्रतीयते तथापि तु
नैवासावर्थः श्रुत्या तात्पर्येण प्रतिपिपादयिषितः प्रागयेतस्य प्रतीतत्वादितीममर्यमाह ।
तदित्येतत्पदं लोके बह्वर्थप्रतिपादकमम् ।
अपरित्यज्य पारोक्ष्यमभिधानोत्यमेव तत् ॥ २३ ॥
ततो वाक्यमेवान्वयव्यतिरेकसहकृतमझाननिवर्त्तवकं नत्वन्वयव्यतिरेकावेत्युक्तमर्थमुपसंहरति एवमिति । तत्त्वमसीत्येतद्वाक्यं पूर्वमन्वयव्यतिरेकाभ्यामात्मानात्मविवेकं कृत्वाप्यवस्थितस्य पश्चात्सवकलसंसारस्य कारणमझानं निवक्र्तयतीत्यर्थः ॥ २२ ॥
यदा ना तत्त्वमस्यादेशत्मना त्याजयेद्धच इत्यादिना पूर्वमप्यनेकधैतदुक्तमतः पुनरुक्तिः स्यादित्याशङ्कयाह इत्यादीति । अत्यन्तसूक्ष्मत्वेन बुद्धावारोपयितुमशक्यार्थस्य युगपदेव बहुना ग्रन्थेन प्रतिपादने बुद्धिगौरवं भवति लघुना ग्रन्थेन बहुशः प्रतिपादने बुद्धिलाघवं बुद्धिसौकर्य भवतीत्येतत्प्रयोजकं पुनः पुनः प्रतिपादनं न दोषायेत्यर्थः । भवत्वेवमुस्तरग्रन्थेन किं विवियत इत्यत आह तत्र यद्यपीति । तत्त्वमस्यादिसामानाधिकरण्यं निमित्तीकृत्य पदद्वयेन लक्षणावृत्योपपादयितुमिष्टप्रत्यगद्वयपदार्थवन्मुख्यया वृत्त्या प्रतीयमानपारोक्ष्यसद्वितीयत्वयोरपि वाक्यप्रमेयत्वमाशङ्कय प्रतिपिपादयिषितार्थविरोधात्तत्प्रतिपादने पुरुषार्थाःभावाद्वाक्यबोधादर्वागपि प्रतीयमानत्वाञ्च न तस्य वाक्यप्रमेयत्वमित्युन्तरश्लोकाभ्यां प्रतिपाद्यत इत्यर्थः । तदित्येतत्पदमिति। तदित्येतत्पदं व्य-