पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६२
नैषधीयचरिते

भवदनुस्मृतिरेव चित्तशुद्धिसम्पादनद्वारा नैष्कर्म्यसम्पादनेन मोक्षहेतुरिति भावः । 'भुवि' इति पाठे-चेतस्येव भुवि स्थाने इत्यर्थः । 'सम्मार्जनी शोधनी स्यात्संकरोऽवकस्तया। क्षिप्ते' इत्यमरः।
 पुनरपि नामान्तरापेक्षया रामनाम्नो माहात्म्यमाह-

अस्मदाद्यविषयेऽपि विशेषे रामनाम तव धाम गुणानाम् ।
अन्वबन्धि भवतैव तु कस्मादन्यथा ननु जनुस्त्रितयेऽपि ॥११५॥

अस्मदादीति ॥ अत्रैते गुणाः सन्तीति विशेषाकारेण विशेषेऽस्मदादीनामज्ञानामविषये बुद्ध्यगोचरे सत्यपि तव सहस्रनामसु मध्ये रामेतिनाम गुणानां धाम स्थानम् । यद्वा-हे राम, तव नाम गुणानां स्थानम् । अज्ञातेपि विशेषे कुत एतन्निर्णीतमित्याशङ्क्यार्थापत्तिं प्रमाणयति-अन्यथा तु पुनर्यद्येवं न स्यात्तर्हि ननु जनुस्त्रितयेपि जामदग्न्यदाशरथिबलभद्ररूपजन्मत्रयेपि भवतैव कस्माद्धेतोराग्रहेण पौनःपुन्येन वा रामेत्येव नाम अन्वबन्धि अङ्गीकृतम् । अनेकजन्मस्वेतस्य त्वयैव स्वीकारात्तवाप्येतत्प्रियतममिति ज्ञायते । तस्माद्रामनाम गुणगणस्थानमित्यर्थापत्तिः। तथाच शिवेनापि 'राम रामेति रामेति-' इत्यादि पार्वती प्रत्युक्तम् ॥

भक्तिभाजमनुगृह्य दृशा मां भास्करेण कुरु वीततमस्कम्
अर्पितेन मम नाथ न तापं लोचनेन विधुना विधुनासि ॥११६॥

 भक्तीति ॥ हे नाथ, त्वं भास्करेण सूर्यरूपया दक्षिणदृशा त्वयि भक्तिभाजं मामनुगृह्य मयि प्रसाददृष्टिपातं कृत्वा वीततमस्कं गताज्ञानं कुरु। प्रसादृष्टिपातान्मम सकलामप्यविद्यां विनाशयेत्यर्थः। सूर्येण च तिमिरं निरस्यते तथा मयि अर्पितेन प्रसादनिहितेन विधुना चन्द्ररूपेण वामलोचनेन कृत्वा मम त्रिविधमपि तापं न विधुनासि न दूरीकरोषि, अपितु निराकुर्विति काकुः । चन्द्रेण च शीतत्वात्तापशान्तिः क्रियते । एवं स्तुवन्तं मां प्रसाददृष्ट्या विलोक्य कृतार्थीकुर्विति भावः॥

लङ्घयन्नहरहर्भवदाज्ञामस्मि हा विधिनिषेधमयीं यः।
दुर्लभं स तपसापि गिरैव त्वत्प्रसादमहमिच्छुरलज्जः ॥ ११७ ॥

 लङ्घयन्निति ॥ हे स्वामिन्, योऽहं 'संध्यावन्दनादि कुर्यात्' इति विधिः, 'ब्रह्महननादि न कुर्यात्' इति निषेधः, तन्मयीं तद्रूपां भवदाज्ञां 'श्रुतिस्मृती ममैवाज्ञे' इति वचनाच्छ्रुतिस्मृतिरूपामहरहःप्रतिदिनं लङ्घयन्नतिक्रामन् यत् कर्तव्यतया त्वयोपदिष्टं तन्न करोमि, यञ्च न कर्तव्यमित्युपदिष्टं तत्करोम्येवेति त्वदाज्ञां लङ्घयन्सन् अस्मि वर्ते। हा कष्टमनुचितकारी ।सोहं महीयसापि तपसा दुर्लभं त्वत्प्रसादमिच्छुः 'प्रसीद' इति गिरैव प्रार्थयमानः सन्नलज्जो निर्लजोऽस्मि । यो हि एकदापि प्रभोराज्ञां करोति सोऽपि कथं चित्स्वामिप्रसादं लभते । यस्तु कदापि स्वाम्याज्ञां न करोति स दण्ड्योपि वाङ्मात्रेण प्रसादमिच्छनिर्लज्ज एव। प्रसीदेति भावः। त्वत्प्रसादमिति'न लोका-' इति षष्ठीनिषेधः॥