पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरिते


 मुक्तमिति ॥ भूमिरात्मनो भूपतित्वाद्दयितं प्रियं भर्तारं नलं स्नानकाले दमनस्य भगिन्या भैम्या मुक्तं विरहितमाप्य लब्ध्वा धृतोरागो लौहित्यं यया, अथ च-सानुरागा सती ऊषरादिमृत्तिकानिषेधात्तत्परिहाराय जलस्पर्शमात्रेण मृदूः शिथिलावयवाः मृदुतरस्पर्शाः समानार्थमानीता मृदो गङ्गादिमृत्तिका गृहयालुं गृह्णन्तमनुकमात्मनः कामुकं तमङ्गमङ्गं परिरेमे आलिलिङ्ग । श्रौतमार्गेण ललाटाद्यङ्गेषु रक्तमृत्तिकालगनव्याजेनान्यदा दुष्प्रापं स्ववल्लभं भूमिरालिलिङ्गेति भावः । प्रतीयमानोत्प्रेक्षा । अन्यापि सपत्नीमुक्तं वल्लभं चिरात्प्राप्य सानुरागा सती प्रत्यङ्गमालिङ्गति । कं सुखं (अनु) लक्षीकृत्य सुखोद्देशेनालिलिङ्गेति वा । 'शुक्ला विप्रस्य, रक्ता क्षत्रियस्य, मिश्रा विशः, कृष्णा शूद्रस्य' इति स्मृतिः । अनुकम् , 'अनुकाभिकाभीकः कमिता' इति साधुः । 'अनु किम्' इति पाठे-सर्वाण्यङ्गानि लक्ष्यीकृत्य परिरेभे किमित्यर्थः॥

मूलमध्यशिखरस्थितवेधःशौरिशंभुकरकाङ्घ्रिशिरःस्थैः ।
तस्य मूर्ध्नि च[१]करे शुचि दर्भैर्वारि वान्तमिव गाङ्गतरङ्गैः॥१२॥

 मूलेति ॥ साप्रमूलैखिभिरगर्भैर्दर्भैस्तस्य मूर्ध्नि शुचि निर्मलं कुत्राप्यसंबन्धात्पवित्रतरं च मार्जनमन्त्रं तत्संबन्धि वारि चकरे विक्षिप्तम् । 'कॄ विक्षेपे'। किंभूतैः(किंभूतमिव)- 'कुशमूले स्थितो ब्रह्मा कुशमध्ये जनार्दनः। कुशाग्रे शंकरं विद्यात्रयो देवाः कुशस्थिताः।' इति वचनान्मूले मध्ये शिखरेऽग्रे च स्थितानां वेधःशौरिशम्भूनां ब्रह्मविष्णुहराणां क्रमेण करके कमण्डलौ, अङ्घ्रौ पादाम्बुजे, शिरसि च गङ्गासर्वदेति पुराणप्रामाण्यात्स्थितैरेवंप्रकारेण दर्भेषु संभवद्भिर्गङ्गासंबन्धिभिस्तरङ्गैर्वान्तमिवोद्गीर्णमिव । कुशमूलस्थितब्रह्मादिदेवत्रयकरकादिनिष्ठगङ्गातरङ्गभ्रष्टैरिव पवित्रैर्दर्भाग्रजलैः स्नानाङ्गभूतमार्जनमकरोदित्यर्थः। 'कमण्डलौ च करकः' इत्यमरः । वान्तम् , उदित्वात् क्त्वायां वेट् इति 'यस्य विभाषा' इति निष्ठाया इण्निषेधः।

प्राणमायतवतो जलमध्ये मञ्जिमानमभजन्मुखमस्य ।
आपगापरिवृढोदरपूरे पूर्वकालमुषितस्य सितांशोः ॥१३॥

 प्राणमिति ॥ सुवर्णघटितमहापात्रस्थतीर्थत्वोपकल्पितसमन्त्रककरकृतावगाहनजलमध्ये 'गायत्रीं शिरसा सार्धं जपेह्यहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः' इति याज्ञवल्क्योक्तलक्षणलक्षितं प्राणं प्राणायाममायतवतः कृतवतः। जलमध्ये मुखं नम्रीकृत्य कनिष्ठाङ्गुष्ठनासामुखश्वासनिरोधपूर्वमघमर्षणं कृतवत इति यावत् । एवंभूतस्य नलस्य जलान्तर्वतिमुखमापगानां परिवृढस्य स्वामिनः समुद्रस्योदरपूरे गर्भप्रवाहमध्ये मन्थनात्पूर्वकालमुषितस्य कृतवासस्य सितांशोश्चन्द्रस्य मञ्जिमानं सौन्दर्यमभजत् । सागरोदरस्थचन्द्रसदृशमभूदित्यर्थः । 'पुंसि भूस्न्यसवः प्राणाः' इत्यमरोक्तेः प्राणशब्दस्य बहुवचनान्तत्वनियमादेकवचनं चि[२]न्त्यम् । आयतवतः, यमेः क्तवतुः । पूर्वकालम् , अत्यन्तसंयोगे द्वितीया ॥


  1. 'विकरे इति क्वाचित्कोऽपपाठः' इति सुखावबोधा।
  2. ’ ('हृदि प्राणो गुदेऽपानः' इत्यादिषु) क्वचिदेषामेकत्वमपि दृश्यते, इति वचनादेकत्वमपि न दोषाय, इति सुखावबोधा।