पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९५
विशः सर्गः।

तियोगे त्व(नद्यतन)भूतेपि 'अभिज्ञावचने लृट्' इति लृट्। 'त[१]दानन्द-' इति पाठः सभ्यः ॥

  जानासि ह्रीभयव्यग्रा यत्नवे मन्मथोत्सवे ।
  सामिभुक्तैव मुक्तासि मृद्वि खेदभयान्मया ॥ ७५ ॥

 जानासीति ॥ हे मृद्वि सुकुमाराङ्गि, शीघ्रद्राविणि च भैमि, मया नवे मन्मथोत्सवे ह्रीभयाभ्यां व्यग्रा व्याकुलचित्ता त्वं अतिमृदुत्वात्संपूर्णसंभोगोपमर्दासहतया तव खेदो भविष्यतीति भयात्सामि अर्धं भुक्तैवाप्राप्तसुरतावसानैव यन्मुक्तासि तज्जानासि स्मरसि । सामिभुक्ता, 'सामि' इति समासः ॥

  स्मर जित्वाजिमेतस्त्वां करे मत्पदधाविनि।
  अङ्गुलीयुगयोगेन यदाश्लिक्षं जने घने ॥ ७६ ॥

 स्मरेति ।। हे भैमि, आजिं सङ्ग्रामं जित्वा त्वामा सांसुख्येनेतः प्राप्तोऽहं नमस्कारार्थं क्षालनार्थं वा मत्पदधाविनि मञ्चरणस्पर्शिनि तव करेऽङ्गुलीयुगयोगेन मदीयचरणाङ्गुलीद्वयसंबन्धेन दर्शनार्थं समागते घने भूयसि जने मध्ये यदाश्लिक्षमालिङ्गितवान् तत्स्मर । जनसमक्षं साक्षादालिङ्गनस्यानौचित्यात्प्रवासोत्कण्ठाभरतरलतया चरणाङ्गुलिद्वयेन त्वत्पाणिपीडनवशात्त्वदालिङ्गनवाञ्छां त्वां प्रति द्योतितवांस्तत्स्मरेत्यर्थः । आश्लिक्षं, 'श्लिष आलिङ्गने' इति लुङ्ङुत्तमैकवचने च्लेः क्सः । 'विभाषा साकाङ्क्षे' इति वैकल्पिकत्वाल्लुडभावः॥

  वेत्थ मानेपि मत्त्यागदूना स्वं मां च यन्मिथः ।
  मदृष्टालिख्य पश्यन्ती व्यवाधा रेखयाऽन्तरा ॥ ७७ ॥

 वेत्थेति ॥ हे भैमि, माने प्रीतिकलहे सत्यपि रोषात्त्वया कृतेन मत्कर्मकत्यागेन दूना खिन्ना क्षणमात्रमपि मद्विरहं सोढुमशक्ता सती मिथ एकान्ते स्त्रीरूपं स्वं, पुंरूपं मां चालेख्ये आलिख्य पश्यन्ती संयुक्तपरस्परदर्शनसुखमनुभवन्ती त्वं मया दृष्टा सती यच्चित्रलिखितयोरावयोरन्तरा मध्ये तूलिकादिलिखितया रेखया व्यवाधाः, व्यवधानं कृतवत्यसि वेत्थ जानासि । तत्स्मरेत्यर्थः । व्यवाधाः, व्यवपूर्वाद्धा ञोलुङ्मध्यमः॥

  प्रस्मृतं न त्वया तावद्यमोहनविमोहितः ।
  अतृप्ताधरपानषु रसनामा तव ॥७८॥

 प्रस्मृतमिति ॥ हे भैमि, मोहनेन सुरतेन विशेषेण मोहितः सुरतपरवशः, अथ च-


  1. यदानन्देति पाठे यद्योगसत्त्वेन 'न यदि' इति निषेधेन लृटोप्राप्तिमभिप्रेत्येदम् । तथा पाठेपि यदिति स्थाने यदेति पदच्छेदं कृत्वा व्याख्याने, यच्छब्दयोगेपि व्याजशयनेन लक्षणेन पद्मनाभीभवनस्य लक्ष्यत्वाल्लक्ष्यलक्षणसंबन्धे 'विभाषा साकाङ्क्षे' इति परत्वाल्लृतो विधानेन च न दोषः इति सुखावबोधावगतोर्थः